Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 88
________________ (८२ ) अपरोक्षानुभूतिः । अंगानां समतांविद्यात्समे ब्रह्मणि लीयते ॥ नोचेन्नैवसमानत्वसृजत्वं शुष्क वृक्षवत् ॥ ११५ ॥ सं. टी. इदानीं देहसाम्यं लक्षयति अगानामिति अंगानां ब्रह्मण्यभ्यस्तानां स्वभावविषमाणामधिष्ठानसमत्वदृष्ट्या समतां विद्याज्जानीयात् चेत्समे ब्रह्मणि अंगवैषम्यमित्यत्राध्याद्दारः तच्चेन्त्रोलीयते समत्ररूपतया न तिष्ठतीत्यर्थः तत्यत्रशेषः शुष्कवृक्षवदंगानामृजुत्वं सरलत्वमचंचलत्वं च यत्तत्समानत्वं नैव भवेदितिसंबंधः अंगानां विषमस्वभावत्वादितिभावः ॥ ११५ ॥ भा. टी. सब प्राणियों में समदृष्टि करके जो समान बहायें लीन होय है सो देहसाम्य कहावे है सूके हुए काष्ठकी तरह समान वस्तुको समता नहीं कहे हैं ॥ ११५ ॥ दृष्टि ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत् ॥ सादृष्टिः परमोदारा न नासाः ग्रावलोकिनी ॥ ११६ ॥ सं. टी. इदानीं दृस्थितिं लक्षयति दृष्टिमिति ब्रह्मणिफलव्याप्यत्वाभावेपिवृत्तिव्याप्यत्वात् दृष्टिमंतः करणवृत्तिं ज्ञानमयीमखंडब्रह्माकारों कृत्वा जगत्सर्वब्रह्ममयं पश्येत् ब्रह्मेवेदं सर्वमित्येतावन्मात्रैववृत्तिः का येति भावः । स्पष्टमन्यत् ॥ ११६ ॥ 1

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108