Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
अपरोक्षानुभूतिः ।
अदृश्यंभावरूपंच सर्वमेवचिदात्मकम् ॥ सावधानतया नित्यं स्वात्मानंभा वयेदुधः ॥ १४१ ॥
सं. टी. यदि पूर्वश्लोकोक्तदृष्टांते भावनाबलादेवान्यस्यान्यत्वं भवेत् तर्हि ब्रह्मविवर्त्तत्वेन ब्रह्मरूपस्य विश्वस्य ब्रह्मभावनया तद्रूपता भवेदिति किमु वक्तव्यमित्याशयेन सर्वात्मभावनामाह अदृश्यमिति । अदृश्यं परोक्षं भावरूपं प्रत्यक्षंच सर्व विश्वं यद्वा अदृश्यं रूपं भावरूपं दृश्यं चकारादर्शनं एतत्सर्वं त्रिपुय्यात्मकं जगद्धांत्याSSत्मभिन्नत्वेन भासमानमपि चिदात्मकं निर्विशेषस्फुरणमात्र स्वरूप स्वात्मानमेव बुधः अद्वैतज्ञाननिष्ठः सावधानतया स्थिरवृत्त्या नित्यं भावयेत्सकलमिदमहं च ब्रह्मैवेति सर्वदा पश्येदि - त्यर्थः ॥ १४१ ॥
( ९८ )
भा. टी. ज्ञानी पुरुष सदाही सावधान होकर अदृश्य दृश्य सम्पूर्ण संसारको चिन्मय ब्रह्म चिन्तना करै ॥ १४१ ॥ दृश्यं दृश्यतां नीत्वा ब्रह्माकारेण चिंतयेत् ॥ विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ १४२ ॥
सं. टी. एतदेव विवृणोति दृश्यमिति दृश्यं घटादिकमदृश्यतामधिष्ठानचिद्रूपतां नीत्वा हीति विद्वत्प्र

Page Navigation
1 ... 102 103 104 105 106 107 108