Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 106
________________ (१००) अपरोक्षानुभूतिः। गुरुदैवतभक्तानां सर्वेषां सुलभोजवात् ॥ १४४॥ सं. टी. अयं राजयोग एव केषां योग्य इत्याकांक्षायां सर्वग्रंथार्थमुपसंहरबाह परिपक्वमिति । येषां मनः परिपकं रागादिमलरहितमितियावत् तेषामित्यध्याहारः तेषां जितारिपड्वर्गाणां पुरुषधुरंधराणां केवलः पातंजलाभिमतयोगनिरपेक्षःअयं वेदांताभिमतो योगसिद्धिदः प्रत्यगभिन्नब्रह्मापरोक्षज्ञानद्वारा स्वस्वरूपावस्थानलक्षणमुक्तिप्रदः चकारोऽवधारणे नान्येषामपरिपक्वमनसामित्यर्थः ननु परिपक्वमनस्त्वमतिदुर्लभ मित्याकाक्षायामस्यापि साधनवादतोप्यंतरंगसाधनमाह गुरुदैवतभक्तानामिति जवादतिशीघ्रमित्यर्थः, सर्वेषामिति वर्णाश्रमादिनिरपेक्षं मनुष्यमात्रं ग्रहीतव्यम् अतएव गुरुदैवतभक्तरंतरंगत्वं तथाचश्रुतिः “यस्यदेवे पराभक्तियथादेवेतथागुरौ। तस्यैतेकथितार्थाः प्रकाशतेमहात्मनः" इति । स्मृतयश्च “ तद्विद्धिप्रणिपातेन । श्रद्धा वॉल्लभतेज्ञानम्" इत्याद्याः । अयंभावः परिपकमनसामपि दुःसाध्यानि साधनानि गुरुदैवतभक्तानां सुसाध्यानिभवंतीतिहेतोगुरुदैवतभजनमेव स्वधर्माविरोधेन सर्वैः कार्यमिति परमं मंगलम् ।। १४४॥ भा. टी. जिनका मन परिपक्व होजाय है उनको केव'.

Loading...

Page Navigation
1 ... 104 105 106 107 108