Book Title: Anusandhan 2011 12 SrNo 57
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ डिसेम्बर २०११ ध्यायेदव्यक्तरूपं स्वहृदयकमले यश्चिदानन्दकन्दं त्वामानन्दाद् वृणीते प्रगुणगुणगणं तं स्वयं मुक्तिलक्ष्मीः ॥८॥ तत्त्वज्ञानमयं महोदयमयं कारुण्यलीलामयं शान्तं सूक्ष्ममनन्तमक्षरमनाकारं परं त्वां विभो !। ध्यायेद् यो हृदयाम्बुजे हततमस्तोमं शतार्कप्रभं तस्याऽऽदेशकरी च निर्वृतिपुरी निःसङ्ख्यसम्पत्करी ॥९॥ रामास्त्रेण जिगाय यो हरिहरब्रह्मादिदेवान् क्षणाद् ध्यानाग्नौ मदनृत्तमाप मदनः स ख्यातवीर्योऽपि ते । ज्ञानाब्धौ त्रिजगद् बित्ति भगवन् ! सूक्ष्मैकमत्स्योपमां स त्वं कोऽपि जिनाऽस्यचिन्त्यमहिमा तत्त्वं परं योगिनाम् ॥१०॥ गात्रं पात्रं कृपायाः परमशमरसास्वादहृद्या गिरस्ते शत्रौ मित्रे समानं हृदयमपगतद्वेषरागं सदैवम् । दुर्जेयं मोहमल्लं तदपि किल भवान् द्राग् विजिग्य(ग्ये?) स्वरूपं तत् ते को वेत्ति सम्यग् जिनवर ! विमलज्ञानिनं वै विहाय ॥११॥ यद्वद् हंसाः स्मरन्ति प्रतिदिनममलं मानसं मानसान्तश्चन्द्रं यद्वच्चकोरास्तरपि(णि)मुरुरसाच्चक्रवाका यथैव । स्वामिन्नव्यक्तरूपं परमपदगतं पुण्यपापोज्झितं त्वां तद्वद् ध्यायन्ति नित्यं त्रिभुवनमहितं योगिनो मोक्ष[लब्ध्यै ?] ॥१२॥ याचे न प्राज्यराज्यं न च विषयसुखं न श्रियं नापि भोगान् न स्वर्गं न त्रिवर्गं न च वररमणीसङ्गमं नोरुकीर्तिम् । वृत्तादिप्रोक्तमन्त्रस्मृतिधृतिरुचिरं नित्यवैराग्यरङ्ग चारित्रं सुन्दरं मे जिन ! जननहरं देहि त्व (स)द्भक्तियुक्तम् ॥१३॥ इति श्रीवीतरागस्तवनम् ॥ किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रियः ? सन्तश्चेदमृतेन किं ? यदि खलास्तत् कालकूटेन किम् ?। दातारो यदि कल्पशाखिभिरलं, यद्यर्थिनः कै (किं) तृणैः ? संसारेऽपि सतीन्द्रजालमरं यद्यस्ति तेनापि किम् ?॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 135