Book Title: Alpbahutva Garbhitam Mahavir Stavanam Author(s): Samaysundar Gani Publisher: Atmanand Jain Sabha View full book textPage 6
________________ अल्प.स्तव. सावचूरि० R ख्याततया तेषां प्राप्यमाणत्वात् । ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, "जत्थ जलं तत्थ वर्ण" इति वचनात् । तत्रावश्यं पनकसेवालादीनां भावात् । ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वादतिप्रभूतपिण्डाभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः। यदुक्तमनुयोगद्वारेषु-"तेणं वालग्गा सुहुमपणगजीवस्स सरीरोगाहणाहिंतो असंखेजगुणा" इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि ते सन्तीति प्रतिपत्तव्या इति । उदकं च प्रभूतं समुद्रेषु द्वीपादिगुणविष्कम्भत्वात् । तेष्वपि च समुद्रेषु प्रत्येक प्राचीप्रतीचीदिशोर्यथाक्रम चन्द्रसूर्यद्वीपा यावति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तत्रोदकाभावः, उदकाभावाच्च वनस्पतिकायिकाभावः । इयं वक्तव्यताऽग्रे सोपयोगिनी ज्ञेया।चशब्दात् पुद्गलानामल्पबहुत्वमपि प्ररूपितम् । इति प्रथमगाधार्थः॥१॥ अथ सामान्यजीवादिसप्तजीवभेदानां पश्चिमदिश आश्रित्याल्पबहुत्वं गाथयाहसामनेणं जीवा ओउ वर्ण विगल तिरियपंचिंदी। पच्छिम थोवा अहिया पुवादिसिं दाहिणत्तरयो॥२॥ - सामान्येन पृथिव्यादिव्यपदेशं विना सर्वस्तोका जीवाः "पच्छिम" इति प्राकृतत्वेन विभक्तिलोपात् पश्चिमायां दिशि। एवमग्रेऽपि अर्थवशाद्विभक्तिव्यत्ययश्च ज्ञेयः । कथं पश्चिमायां सर्वस्तोकाः ? उच्यते, यतो हि प्रतीच्यां दिशि लवणसमु-|| द्राधिपसुस्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेभ्योऽधिको वर्तते, तत्र च उदकाभावाद्वनस्पतिकायिकानामभा-1 वात्सर्वस्तोका जीवाः पश्चिमायां दिशि । तेभ्यः “अहिया" इति विशेषाधिकाः सामान्यजीवाः पूर्वदिशि । तत्र हि गौत-I मद्वीपो न विद्यते, ततस्तावता विशेषेणातिरिच्यन्त इति । तेभ्योऽपि दक्षिणस्यां दिशि सामान्यजीवा विशेषाधिकाः, ACRACRORE ॥१॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28