Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 5
________________ ॥ अर्हम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः ॥ श्रीसमयसुन्दरोपाध्यायविरचितखोपज्ञावचूरिसहितं अल्पबहुत्वगर्भितं श्रीमहावीरस्तवनम् । श्रीप्रज्ञापनातृतीयपद प्रथमद्वारं हृदि निधाय सामान्यजीवादिसप्तदशभेदभिन्नानां जीवानां दिश आश्रित्य स्वोपज्ञाल्पबहुत्वस्तवस्य वृत्तिर्विधीयते । तत्रादौ येन भगवता इदं जीवानामल्पबहुत्वं प्ररूपितं तं श्रीवर्द्धमानं स्तुवन्नाह | जेण परुवियमेयं दिसाणुवारण अप्पबहुठाणं | जीवाण बायराण य थुणामि तं वद्धमाणजिणं ॥ १ ॥ अहं तं वर्द्धमानजिनं श्रीवीरतीर्थङ्करं स्तवीमि । तं कं ? येन भगवता एतद्वक्ष्यमाणं जीवानामल्पबहुत्वस्थानं प्ररूपितम् । केन प्रकारेण ? "दिसाणुवारण" दिशामनुपातो दिगनुसरणं तेन दिशोऽधिकृत्य च । तात्पर्यार्थः इह दिशः प्रथमे आचाराख्येssनेकप्रकारा व्यावर्णितास्तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वादितरासां च प्रायोऽनवस्थितत्वादनुपयोगित्वाच्च क्षेत्र दिशां च प्रभवस्तिर्यग्लोकमध्यगता दष्टप्रदेशका द्रुचकाद्विज्ञातव्याः । किंविशिष्टानां जीवानां ? बादराणां नतु सूक्ष्माणां सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात् । बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिका अनन्तसं

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28