Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 18
________________ महादं. स्तो. ॥ ७ ॥ संपद्यते इति घन संपूर्णता । तस्मादष्टौ नव वावलिकागर्भा वर्गाः कल्प्यन्ते । तथा च सति ८००/९०० प्रमाणा वा सद्भा वितस्त्वसंख्येया बादरपर्याप्ता अग्निकायिकाः सिद्धाः स्युः ३ । अनुत्तरोपपातिनोऽसंख्येयाः, प्रमाणाङ्गुलश्रेण्यसंख्येय भागप्रदेशराशिप्रमाणत्वात् क्षेत्रपल्योपमासंख्येय भागवर्तिनभः प्रदेशराशितुल्या इत्यर्थः ४ ॥ २ ॥ उवरिम ५ मज्झिम ६ हिट्टिम ७ अचुया ८ रण ९ पाणया १० णय ११ सुराय । चउदस असंख माघवइ १२ मघा १३ सहसार १४ महसुका १५ ॥ ३ ॥ उपरितनचैवेयक त्रिकदेवा: संख्येयगुणाः, बृहत्तराङ्गुलश्रेणिसंख्येय भागप्रदेशराशिप्रमाणत्वात् । यतोऽनुत्तरसुराणां पञ्च, उपरितनयैवेयक त्रिके शतं विमानानां प्रतिविमानं वासंख्येया देवा यथा चाधोऽधोविमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति । एवमुत्तरचापि भावना यावदानतः ५ | मध्यमत्रैवेयकदेवाः संख्येयगुणाः ६ । अधस्तनयैवेयकदेवाः संख्येयगुणाः ७ । अच्युतदेवाः संख्येयगुणाः ८ । आरणदेवाः संख्येयगुणाः ९ । यद्यपि आरणाच्युतौ समश्रेणीको समविमान संख्याको च; तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् । बहवश्च कृष्णपा - क्षिकाः स्तोकाः शुपाक्षिका इति । येषां किंचिदूनपुद्गलपरावर्तार्धमात्र संसारस्ते शुक्लपाक्षिकाः, अन्ये तु कृष्णपाक्षिकाः । तथास्वाभाव्यं च पूर्वाचार्यैरेवमवर्ण्यत - कृष्णपाक्षिका दीर्घसंसारिणः ते च बहुपापोदयाद्भवन्ति, ते च क्रूरकर्माणः, प्रायस्तथा स्वाभाव्यात् । भवसिद्धिका अपि दक्षिणस्यामुत्पद्यन्ते, न शेषासु दिक्षु । उक्तं च- " पायमिह कूरकम्मा भवसिद्धी १" - रेवं वर्ण्यते" इत्यपि क्वचित् ॥ सावचूरि० ॥ ७ ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28