Page #1
--------------------------------------------------------------------------
________________
vego श्री आत्मानन्द-ग्रन्थ - रत्नमाला - एकोनविशं रत्नम् (१९) श्री समय सुन्दर गणिविरचितस्वोपज्ञावचूरि सहितं
अल्पबहुत्वगर्भितं श्रीमहावीरस्तवनम् ।
तथा
सावचूरिकं महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ।
श्रीमती साध्वी ज्ञानश्री सदुपदिष्ट- श्रीअणहिलपुरपत्तनवास्तव्य-श्राविका - चंचलबाईतथा - श्रीमालिज्ञातीय- मोहनलालात्मज -मणिलालभार्या - बाई रुक्ष्माणी द्रव्यसाहाय्येन प्रकाशयित्री - श्री आत्मानन्दसभा - भावनगर । इदं पुस्तकं मुम्बय्यां वल्लभदास - त्रिभुवनदास गांधी सेक्रेटरी जैन आत्मानन्दसभा भावनगर इत्यनेन निर्णयसागरमुद्रालये कोलभाटवीथ्यां २३, तमे गृहे रा. य. शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४०. आत्मसंवत् १८.
विक्रमसंवत् १९७०.
कन्डक
Page #2
--------------------------------------------------------------------------
________________
G4-********
Printed by R. Y. Shedge at the Nirnaya-sagar Press, 23, Kolbbat Lane, Bombay, ano Published by
Vallabhadas Tribhuvandas Gandhi, Seoretary, Jaina Atmananda Sabha, Bhavanagar.
*
*
***
Page #3
--------------------------------------------------------------------------
________________
॥ प्रस्तावना ॥
RECECAUS
इदमल्पबहुत्वगर्भितं त्रयोदशगाथात्मकं श्रीमन्महावीरखामिविज्ञप्तिरूपस्तवनं जैनागमपारावार पारीणपूज्यपादश्रीमच्छयामाचार्याचार्यपुङ्गवसङ्कलितप्रज्ञापनोपाङ्गतृतीयपदप्रथमद्वारात्समुद्धृत्य संहब्धमिति पीठिकावलोकनेन स्फुटमवगम्यते । अस्य प्रणेतारोऽष्टलक्षीकल्पलता. दिभूरितरग्रन्थग्रथनपटुतरमतिविभवाः श्रीवृहत्खरतरगच्छाधीशश्रीमजिनचन्द्रसूरिशिष्यसकलचन्द्रगणिशिष्यवाचनाचार्यश्रीसमयसुन्दरगणयः, इत्यस्यावसानगाथातदवचूरिनिरीक्षणेन प्रकटमेव प्रतिभाति । एभिरेव वाचंयमचूडामणिभिरेतत्करणे प्रयोजनमप्यस्य प्रान्ते प्रदर्शितमेव ।
एतेषां सत्तासमयस्तु जिनशासनेऽस्मिन् विक्रमार्कीयसप्तदशशताब्दयां सुप्रसिद्ध एव, इत्यतस्तत्तदन्थप्रशस्तिगतानि प्रमाणान्यपि नोपन्यस्तानि । का अस्मिन्नल्पबहुत्वविचारगर्भितवीरस्तुतौ सिद्धान्तखापतेयसारैः स्तुतिकारैः प्रथमतो नवसु गाथासु सामान्येन सप्तदशभेदभिन्नानां जीवानां पूर्वादिदिशः समाश्रित्याल्पबहुत्ववर्णनम्, दशमैकादशगाथयोस्तु पुद्गलानां षट्सु दिश्वल्पबहुत्वनिरूपणम् , द्वादशत्रयोदशगाथयोः पुनः श्रीमन्महावीरजिनविज्ञप्त्यादिकरणं इत्येते विषयाः सप्रपञ्चं प्रपञ्चिताः सन्ति ।
एतदल्पबहुत्वगर्भितश्रीमहावीरस्तवनपुस्तकगवेषणपरायणेन मया भूयो भूयः प्रायतिषि परं केवलं पत्तनस्थतपगच्छचित्कोषसक्तं | श्रेष्ठि-लेहेरचन्द्र-हालाभाई-द्वारा नातिशुद्धमेकं पुस्तकं समुपलब्धम् , एतदाधारेणैव संशोधितं च ।
A
Ans
mare
Page #4
--------------------------------------------------------------------------
________________
%
-
अल्प.स्तव.
प्रस्तावना.
॥१॥
द्वितीयस्यास्य महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनस्य अवचूर्याश्च के परोपकृतिकर्म कर्मठाः बतिनेतारः प्रणेतारः ? इत्येतद्विषयनिर्णयस्तु कर्तु न पार्यते, अत्र क्वापि तेषामभिधेयादिकस्यानुपलम्भात् । परं "संव० १४८६ सोमवारे" इति लिखितपुस्तकादर्शदर्शनेन नार्वाचीनमिति निश्चीयते ।
____ संशोधितेऽप्यत्र निबन्धे मतिमान्द्यादक्षरयोजकदोषाद्वा यत्र कचनाशुद्धिः कृता जाता वा भवेत् तत्र संशोधनीयं विपश्चिदपश्चिमैरिति प्रार्थयते प्रकल्पिताञ्जलिः
प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः
चतुरविजयो मुनिः।
kCASS-XA5
॥
१
॥
Page #5
--------------------------------------------------------------------------
________________
॥ अर्हम् ॥
॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः ॥ श्रीसमयसुन्दरोपाध्यायविरचितखोपज्ञावचूरिसहितं
अल्पबहुत्वगर्भितं श्रीमहावीरस्तवनम् ।
श्रीप्रज्ञापनातृतीयपद प्रथमद्वारं हृदि निधाय सामान्यजीवादिसप्तदशभेदभिन्नानां जीवानां दिश आश्रित्य स्वोपज्ञाल्पबहुत्वस्तवस्य वृत्तिर्विधीयते । तत्रादौ येन भगवता इदं जीवानामल्पबहुत्वं प्ररूपितं तं श्रीवर्द्धमानं स्तुवन्नाह | जेण परुवियमेयं दिसाणुवारण अप्पबहुठाणं | जीवाण बायराण य थुणामि तं वद्धमाणजिणं ॥ १ ॥
अहं तं वर्द्धमानजिनं श्रीवीरतीर्थङ्करं स्तवीमि । तं कं ? येन भगवता एतद्वक्ष्यमाणं जीवानामल्पबहुत्वस्थानं प्ररूपितम् । केन प्रकारेण ? "दिसाणुवारण" दिशामनुपातो दिगनुसरणं तेन दिशोऽधिकृत्य च । तात्पर्यार्थः इह दिशः प्रथमे आचाराख्येssनेकप्रकारा व्यावर्णितास्तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वादितरासां च प्रायोऽनवस्थितत्वादनुपयोगित्वाच्च क्षेत्र दिशां च प्रभवस्तिर्यग्लोकमध्यगता दष्टप्रदेशका द्रुचकाद्विज्ञातव्याः । किंविशिष्टानां जीवानां ? बादराणां नतु सूक्ष्माणां सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात् । बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिका अनन्तसं
Page #6
--------------------------------------------------------------------------
________________
अल्प.स्तव.
सावचूरि०
R
ख्याततया तेषां प्राप्यमाणत्वात् । ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, "जत्थ जलं तत्थ वर्ण" इति वचनात् । तत्रावश्यं पनकसेवालादीनां भावात् । ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वादतिप्रभूतपिण्डाभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः। यदुक्तमनुयोगद्वारेषु-"तेणं वालग्गा सुहुमपणगजीवस्स सरीरोगाहणाहिंतो असंखेजगुणा" इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि ते सन्तीति प्रतिपत्तव्या इति । उदकं च प्रभूतं समुद्रेषु द्वीपादिगुणविष्कम्भत्वात् । तेष्वपि च समुद्रेषु प्रत्येक प्राचीप्रतीचीदिशोर्यथाक्रम चन्द्रसूर्यद्वीपा यावति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तत्रोदकाभावः, उदकाभावाच्च वनस्पतिकायिकाभावः । इयं वक्तव्यताऽग्रे सोपयोगिनी ज्ञेया।चशब्दात् पुद्गलानामल्पबहुत्वमपि प्ररूपितम् । इति प्रथमगाधार्थः॥१॥ अथ सामान्यजीवादिसप्तजीवभेदानां पश्चिमदिश आश्रित्याल्पबहुत्वं गाथयाहसामनेणं जीवा ओउ वर्ण विगल तिरियपंचिंदी। पच्छिम थोवा अहिया पुवादिसिं दाहिणत्तरयो॥२॥ - सामान्येन पृथिव्यादिव्यपदेशं विना सर्वस्तोका जीवाः "पच्छिम" इति प्राकृतत्वेन विभक्तिलोपात् पश्चिमायां दिशि। एवमग्रेऽपि अर्थवशाद्विभक्तिव्यत्ययश्च ज्ञेयः । कथं पश्चिमायां सर्वस्तोकाः ? उच्यते, यतो हि प्रतीच्यां दिशि लवणसमु-|| द्राधिपसुस्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेभ्योऽधिको वर्तते, तत्र च उदकाभावाद्वनस्पतिकायिकानामभा-1 वात्सर्वस्तोका जीवाः पश्चिमायां दिशि । तेभ्यः “अहिया" इति विशेषाधिकाः सामान्यजीवाः पूर्वदिशि । तत्र हि गौत-I मद्वीपो न विद्यते, ततस्तावता विशेषेणातिरिच्यन्त इति । तेभ्योऽपि दक्षिणस्यां दिशि सामान्यजीवा विशेषाधिकाः,
ACRACRORE
॥१॥
Page #7
--------------------------------------------------------------------------
________________
यतस्तत्र चन्द्रसूर्यद्वीपा न विद्यन्ते, तदभावात्तत्र उदकं प्रभूतं, तत्प्राभूत्याच्च वनस्पतिकायिका अपि प्रभूता इति विशेपांधिकाः । एवमिदमधिकपदमग्रेऽपि योज्यम् । तेभ्योऽप्युदीच्यां दिशि सामान्यजीवा विशेषाधिकाः । किं कारणं ? इति चेदुच्यते, उदीच्यां हि दिशि संख्येययोजनेषु द्वीपेषु मध्ये कस्मिंश्चिद्वीपे आयामविष्कम्भाभ्यां संख्येययोजनकोटीकोटीप्रमाणं मानसं नाम सरः समस्ति ततो दक्षिणदिगपक्षेया अस्यां प्रभूतमुदकम्, उदकवाहुल्याच्च प्रभूता वनस्पतयः, । प्रभूता द्वीन्द्रियाः शंखादयः । प्रभूतास्तटलग्नशंखादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः । प्रभूताः पद्मादिषु चतुरिन्द्रिया भ्रमरादयः । प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति विशेषाधिकाः । इति सामान्यजीवानां दिगनुपातेनाल्पबहुत्वमुक्तम् । एवं पश्चिमादिदिगनुपातेनावादिपङ्कस्य ज्ञेयम् । तथाहि - सर्वस्तोका अष्कायिकाः पश्चिमायां दिशि गौतमद्वीपस्थाने तेषाम- । भावात् । तेभ्योऽष्कायिकाः पूर्वस्यां दिशि विशेषाधिकाः, तत्र गौतमद्वीपाभावात् । तेभ्योऽपि विशेषाधिका अष्कायिका दक्षिणस्यां दिशि चन्द्रसूर्यद्वीपाभावात् । तेभ्यो विशेषाधिका अष्कायिका उत्तरस्यां दिशि, तत्र मानससरः सद्भावात् । तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः । प्रभूताः शंखादयो द्वीन्द्रियाः । प्रभूताः पिण्डीभूताः सेवालाद्याश्रिताः कुन्थ्यादयस्त्रीन्द्रियाः । प्रभूताः पद्माद्याश्रिता भ्रमरादयश्चतुरिन्द्रियाः । प्रभूता मत्स्यादयः पश्चेन्द्रियाः । इति हेतोः " वण" इति वनस्पतिकायिकाः १ । “विगल" इति विकला द्वित्रिचतुरिन्द्रियाः ४ तिर्यक्पञ्चेन्द्रि याश्च ५ । एते पञ्चापि जीवाः सर्वस्तोकाः पश्चिमायां दिशि । ततः पूर्वस्यां दिशि विशेषाधिकाः । ततो दक्षिणस्यां दिशि विशेषाधिकाः । ततोऽपि उत्तरस्यां दिशि विशेषाधिकाः । इति अष्कायिकवद्भावनीयाः । इति द्वितीयगाथार्थः ॥ २ ॥
Page #8
--------------------------------------------------------------------------
________________
अल्प.स्तव
SIGISISSSSSSSSS
अथ मनुष्यसिद्धतैजसकायिकानामल्पबहुत्वमग्रेतनगाथयाह
सावरि० मणुयाँ सिद्धों तेॐ सत्वत्थोवा य दाहिणुत्तरयो।पुविं संखा पच्छिम अहिया कहिया तुमे नाह!॥३॥ । हे नाथ ! "तुमे" त्वया "मनुजाः" मानवा दक्षिणोत्तरयोर्दिशोः सर्वस्तोकाः कथिताः । कथम् ? दक्षिणस्यामुत्तरस्यां च दिशि पञ्चानां भरतक्षेत्राणां पञ्चानामैरावतक्षेत्राणामल्पत्वात् । तेभ्यः "पुविं संखा" इति पूर्वस्यां दिशि संख्येयगुणाः,| क्षेत्रस्य संख्येयगुणत्वात् । तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाधोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ८ । एवं च पुनः हे नाथ ! त्वया सिद्धा दक्षिणोत्तरयोर्दिशोः सर्वस्तोकाः कथिताः । कथम् ? इति चेदुच्यते, इह ६ मनुष्या एव सिध्यन्ति, नान्ये । मनुष्या अपि सिध्यन्तो येषु आकाशप्रदेशेषु इह च चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषु ऊर्ध्वमपि गच्छन्ति, तेष्वेव चोपर्यवतिष्ठन्ते न मनागपि वकं गच्छन्ति सिध्यन्ति वा । तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि पश्चस्वैरावतेषु मनुष्या अल्पाः क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः। तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, पूर्व विदेहानां भरतैरावतक्षेत्रेभ्यः संख्येयगुणतया तद्गतमनुष्याणामपि4 संख्येयगुणत्वात् , तेषां सर्वकालं सिद्धिभावात् । तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् ९ । तथा "तेज" इति तेजस्कायिकाः, उक्तिः पूर्ववत् । सर्वस्तोका दक्षिणोत्तरयोर्दिशोः, यतो मनुष्यक्षेत्रे एव बादरास्तेजस्कायिकाः, नान्यत्र । तत्रापि यत्र बहवो मनुष्यास्तत्र ते बहवो बाहुल्येन पाकारम्भसंभवात् । यत्र त्वल्पे तत्र स्तोकाः। तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि पञ्चस्वैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां
Page #9
--------------------------------------------------------------------------
________________
LOCALSACREAC-
CROSORBASISAMANARASIMALS
दस्तोकत्वेन तेजस्कायिका अपि स्तोका, अल्पपाकारम्भसंभवात् । ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशि तेजस्कायिकाः।
स्वस्थाने तु प्रायः समानाः । तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, क्षेत्रस्य संख्येयगुणत्वात् । ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् १०॥३॥अथ वायुकायिकानां साधिकपदद्वयेन अल्पबाहुल्यमाहहवाऊ थोवा पुत्विं तत्तो अहिया य पच्छिमुत्तरयो। दाहिण ११ नारय थोवा पुबुत्तरपच्छिमासु समा॥४॥ दाहिण असंख १२
इह यत्र शुपिरं तत्र वायुर्यत्र च धनं तत्र वाय्वभावः, ततः पूर्वस्यां दिशि प्रभूतं घनमिति सर्वस्तोका वायुकायिकाः त्वया कथिता इति पूर्ववदुक्तिः । ततः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसंभवात् । ततोऽपि उत्तरस्यां दिशि विशेषाधिकाः, भवननरकावासबाहुल्येन शुपिरबाहुल्यात् । ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकावासानां चातिप्रभूतत्वात् ११॥ अथ साधिकपदद्वयेन नारकाणामल्पबहुत्वमाह-"नारय” इति हे देव! नारकाः सर्वस्तोकास्त्वया पूर्वोत्तरपश्चिमादिक्षु कधिताः । कथम् ? पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् बहूनां प्रायः संख्येययोजनविस्तृतत्वाच्च । किंविशिष्टा नारकाः ? समाः स्वस्थाने तुल्याः। तथा तेभ्यो दक्षिणस्यां दिशि असंख्येयगुणाः, पुष्पावकीर्णनरकावासानां तत्र बाहुल्यात् तेषां च प्रायोऽसंख्येययोजनविस्तृतत्वात् कृष्णपाक्षिद्र काणां तस्यां दिशि प्राचुर्येणोत्पादाच्च । तथाहि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाश्च । तेषां लक्षणमिदं
किंचिदूनपुद्गलपरावर्तार्धमानं संसारस्ते शुक्लपाक्षिकाः । अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः। उक्तं च-"जेसिम
C-SCHEMILM4
Page #10
--------------------------------------------------------------------------
________________
अल्प.स्तव. वड्डो पुग्गलपरियट्टो सेसओ य संसारो। ते सुक्कपक्खिया खलु अहिए पुण कण्हपक्खीओ१॥" अत एव च स्तोकाः शुक्ल- सावचूरि०
N पाक्षिकाः, अल्पसंसारिणां स्तोकत्वात् । बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात् । कृष्णपाक्षिकाश्च प्राचुर्येण
दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु; तथास्वाभाव्यात् । तच्च तथास्वाभाव्यं पूर्वाचायरेवं युक्तिभिरुपबृह्यते । तद्यथा-कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते; दीर्घतरसंसारभाजिनश्च बहुपापोदयाद्भवन्ति; बहुपापोदयाच्च क्रूरकर्माणश्च प्रायस्तथास्वाभाब्यात् । तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते न शेषासु सर्वासु दिक्षु । यत उक्तम्-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिणलेसु । नेरइतिरियमणुया सुराइठाणेसु गच्छंति १॥" ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसंभवात् पूर्वोक्तकारणद्वयाच्च संभवन्ति। पूर्वोत्तरपश्चिमदिग्विभाविभ्यो दाक्षिणात्या |असंख्येयगुणाः । इति नारकाणां सामान्येनाल्पवहुत्वमुक्तम् । अथ प्रसङ्गात्सोपयोगित्वेन सप्तापि पृथिवीरधिकृत्य दिग्विभागेन नारकाणामल्पबहुत्वं प्रोच्यते । तथाहि-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्विभाविभ्यो नारकेभ्यो ये सप्तमपृथि-18 व्यामेव दाक्षिणात्यास्तेऽसंख्यातगुणाः । तेभ्यः षष्ठपृथिव्यां तमःप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्विभाविनोऽसंख्येय-। गुणाः । कथम् ? इति चेदुच्यते, इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यमनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते; किंचिद्धीनहीनतरपापकर्मकारिणश्च षष्ठ्यादिषु पृथिवीषु । सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोका बहवश्च यथोत्तरं किंचि-18
द्धीनहीनतरादिपापकर्मकारिणः । ततो युक्तमसंख्येयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपसे श्चिमनारकाणाम् । एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम् । तेभ्योऽपि तस्यामेव षष्ठपृथिव्यां दक्षिणस्यां दिशि
CRORRECERECRECR-CAREER
-
Page #11
--------------------------------------------------------------------------
________________
AMDEAKNESCORRECTECECEO
नारका असंख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता। तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्विभाविदानोऽसंख्येयगुणाः । तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असंख्येयगुणाः । एवं सर्वास्वपि क्रमेण वाच्यम् १२
॥४॥ अथ किंचिन्यूनगाथया जिनस्तुतिपूर्व पृथिवीकायिकानामल्पबहुत्वमाह| पुढवी दाहिण थोवा कमेण अहियाओ। उत्तरपुत्वावरदिसि तुज्झ नमो जेण निदिट्ठा १३॥५॥
हे वीर ! इति शेषः तस्मै तुभ्यं नमः । तस्मै कस्मै ? येन त्वया "पुढवी” इति पृथिवीकायिका दक्षिणस्यां दिशि सर्वस्तोकाः, तत उत्तरादिदिक्षु च क्रमेणाधिका निर्दिष्टाः केवलज्ञानेन विलोक्य गणधराणामग्रे वाचा प्रकाशिताः। कथंदक्षिपणस्यां दिशि सर्वस्तोकाः ? उच्यन्ते, इह यत्र घनं तत्र वहवः पृथिवीकायिकाः, यत्र शुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि
बहूनि भवनपतीनां भवनानि बहवो नरकावासाः, ततः शुषिरं प्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीका|यिकाः। तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत्रोत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका नरकावासाः, ततो घनप्राभूत्यसंभवात् बहवः पृथिवीकायिका इति विशेषाधिकाः।तेभ्योऽपि पूर्वस्यां दिशि विशेषाधिकाः, रविशशिद्वीपानां तत्र भावात् । तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः । किंकारणम् ? इति तदुच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तो द्वीपाः पश्चिमायामपि, तत एवैतावता साम्यम् ; परं लवणसमुद्रे गौतमदीपः पश्चिमायामधिकोऽस्ति तेन विशेषाधिकाः। अत्रापर आह-ननु यथा पश्चिमायां दिशि गौतमद्वीपोभ्यधिकोऽस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाढाः सन्ति, ततः खातधूलिपूरितन्यायेन ते तुल्या एव पृथिवीका
Page #12
--------------------------------------------------------------------------
________________
अल्प.स्तव.यिकाः प्रामुवन्ति न विशेषाधिकाः । नैतदेवं यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधि-INसावचूरिक
कयोजनसहस्रमुच्चैस्त्वं विष्कम्भस्तस्य द्वादशयोजनसहस्राणि, यच्च मेरोरारभ्याधोलौकिकग्रामेभ्योऽर्वाग् हीनत्वं हीनतरत्वं, तत्पूर्वस्यामपि दिशि प्रभूतग दिसंभवात् समानम् । ततो यद्यधोलौकिकग्रामछिद्रेषु बुद्ध्या गौतमद्वीपः प्रक्षिप्यते तथापि समधिक एव प्राप्यते न तु तुल्य इति, तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवी कायिकाः-१३ ॥५॥
अथ भवनपतीनां दिगनुपातेन पदत्रयेणाल्पबहुत्वमाहभवणवइ पुवपच्छिम थोवा तुल्ला य उत्तर असंखा। दाहिण तओ असंखा १४ "भवणवइ" इति भवनपतिदेवाः सर्वस्तोकाः “पुचपच्छिम" इति पूर्वस्यां पश्चिमायां च दिशि, कथम् ? तत्र भवनानामल्पत्वात् । तेभ्यः "उत्तर" इति उत्तरस्यां दिशि "असंखा" असंख्यातगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात् । ततस्तेभ्योऽपि दक्षिणस्यां दिशि असंख्येयगुणाः, तत्र भवनानामतीववाहुल्यात्। तथाहि-निकाये निकाय चत्वारिचत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च वहवस्तत्रोत्पद्यन्ते ततो भवन्त्यसंख्येयगुणाः १४ ॥
अथ व्यन्तराणां दिगनुपातेन साधिकपदद्वयेनाल्पबहुत्वमाहविंतर थोवा य पुवदिसि ॥६॥ पच्छिम उत्तर दाहिण अहिया १५
का॥४॥ ___"विंतर" इति हे वीर ! व्यन्तराः पूर्वदिशि त्वया सर्वस्तोका निर्दिष्टा उक्तिर्विशेषोक्त्यभावे एवमेव सर्वत्र कार्या । कथं है। पूर्वस्यां दिशि सर्वस्तोकाः ? इत्याह-यत्र शुपिरं तत्र व्यन्तराः प्रचरन्ति, यत्र घनं तत्र न, ततः पूर्वस्यां दिशि घनत्वात्
SASTEREOSROSECRESS5ESAR
Page #13
--------------------------------------------------------------------------
________________
स्तोका व्यन्तराः। च पुनस्तेभ्यः पश्चिमदिशि विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरं संभवति । तेभ्योऽपि उत्तरस्यां दिशि विशेषाधिकाः स्वस्थानतया नगरावासबाहुल्यात् । तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावास| बाहुल्यात् ॥१५॥ अथ ज्योतिष्कानां दिगनुपातेन किंचिन्यूनपदत्रयेणाल्पबहुत्वमाह
थोवा य जोइसा तुला । पुवावरदिसि दाहिण उत्तर अहिया कमा भणिया १६ ॥ ७॥ दि। "थोवा" इति हे वीर ! त्वया ज्योतिष्काः "पुवावरदिसि" इति पूर्वस्यां दिशि पश्चिमायां दिशि च सर्वस्तोकाः परस्पर
तुल्याश्च भणिता निर्दिष्टाः, चन्द्रादित्यद्वीपेषु उद्यानकल्पेषु कतिपयानामेव तेषां भावात् । ततस्तेभ्योऽपि क्रमात् दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च । तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः,8 यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यावृत्त्या नित्यमासते मानससरसि च ये मत्स्यादयो जल
चरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणा किञ्चित् व्रतं पतिपद्य अशनादिः च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते, ॥ ततो भवन्त्यौत्तरा दक्षिणेभ्यो विशेषाधिकाः १६ ॥७॥ अथ वैमानिकानां विभागेन दिगनुपातेनाल्पबहुत्वमाह
पढमचउकप्पदेवा सवत्थोवा य पुवपच्छिमओ। उत्तरअसंख दाहिण अहिया तुह मयविऊ बिति॥८॥ बंभाइकप्पचउगे पुवत्तरपच्छिमासु थोव समा। दाहिण संखा तत्तो उवरिमदेवा य सम सवे १७॥९॥
हे वीर ! तव मतविदः सिद्धान्तिकाः प्रथमचतुष्ककल्पदेवाः सौधर्मेशानसनत्कुमारमाहेन्द्रकल्पभाविनः सुराः पूर्वस्यां : पश्चिमायां च दिशि सर्वस्तोकाः, चशब्दात्परस्परं तुल्याश्चेति ब्रुवन्ति । एवमुक्तिरग्रेऽपि सर्वत्र लापनीया । कथम् ? इति |
MUSCLEARURESSURESS
RECORRECCASSROOSSACRECENT
Page #14
--------------------------------------------------------------------------
________________
-
ANDICINEERINEE
Homeण्यामा
055
अल्प.स्तव. चेदुच्यते, यानि आवलिकाप्रविष्टविमानानि तानि चतसृष्वपि दिक्षु तुल्यानि; यानि पुनः पुष्पायकीणाँनि तानि प्रभूतानि सावरि०
असंख्येययोजनविस्तृतानि तानि च दक्षिणस्यामुत्तरस्यां च दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां दिशि पश्चिमायां च दिशि । तेभ्य उत्तरस्यां दिशि असंख्येयगुणाः, पुष्पावकीर्णविमानानां बाहुल्यात् असंख्येययोजनविस्तृतत्वाञ्च। तेभ्योऽपि दक्षिणत्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् ॥ ८॥ तथा ब्रह्मलोकादिदेवलोकचतुष्के देवाः पूर्वोत्तरपश्चिमासु दिक्षु सर्वस्तोकाः परस्परं तुल्याश्च, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो न दक्षिणस्यां दिशि समुत्पधन्ते, शुक्लपाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमासु देवाः सर्वस्तोकाः। तेभ्यो दक्षिणस्यां दिशि असंख्येयगुणाः, कृष्णपाक्षिकाणां वहूनां तत्रोत्पादात् । ततः "उपरिमदेवा" उपरितनदेवा आनतादिसर्वार्थसिद्धिपर्यन्ता देवास्ते मनुष्या एवोपद्यन्ते, तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं चतसृवुदिक्षु प्रायो बहुसमा वेदितव्याः। तथा चाह-"तेण परं
बहुसमोवनगा समणाउसो' १७ ॥१॥ सप्तदशभेदभिन्नानामपि जीवानां दिगनुपातेन सहेतुकमल्पबहुत्वं प्ररूपितम् । अथ दापुद्गलानां दिगनुपातेन श्रीमहावीरेणाल्पबहुत्वमुक्तं तथाह
थोवा पुग्गल उड्ढे अहिय अहे तह असंख तुल्ला य।उत्तरपुरच्छिमेणं दाहिणपञ्चच्छिमेण तओ॥१०॥ दाहिणपुरच्छिमेणं उत्तरपञ्चच्छिमेणअहिय समा। पुविं असंख अहिया पच्छिन तह दाहिणुत्तरयो॥११॥ ___दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोकाः “उहुं” इति ऊर्ध्वदिशि । इह रत्नप्रभासमभूमितलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्माद्विनिर्गताश्चतुःप्रदेशा अर्वा दिग् यावल्लोकान्तस्ततस्तत्र सर्वस्तोकाः पुद्गलाः । तथा “अहे" इति अधोदिशित
--
-
-
-
1525-5-5
REETTERMINS
-
Page #15
--------------------------------------------------------------------------
________________
MITUNEEMUSTAHINDE
MIERE
mwmemNNARENDER RECORRECREENERALCARRELIARLS
तेभ्यो “अहिया" इति विशेषाधिकाः । अधोदिगपि रुचकादेवं भवति, चतुःप्रदेशा यावल्लोकान्तस्तत्र तस्या विशेषाधिकत्वात्तत्र पुद्गला विशेषाधिकाः । ततस्तेभ्य उत्तरपूर्वत्यां दक्षिणपश्चिमायां च द्वयोरपि दिशोरसंख्येयगुणाः । च पुनः स्वस्थाने परस्परं तुल्याश्च, यतस्ते द्वेऽपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमध्ये लोकान्तमूर्ध्वलोकान्तं च पर्यवसिते तेन क्षेत्रस्यासंख्येयगुणत्वात् तत्र पुद्गला असंख्येयगुणाः । क्षेत्रं तु स्वस्थाने सममिति पुद्गला अपि स्वस्थाने तुल्याः॥१०॥ तेभ्यो दक्षिणपूर्वस्या उत्तरपश्चिमायां च प्रत्येकं विशेषाधिकाः स्वस्थाने परस्परं तुल्याश्च । कथं विशेषाधिकाः ? इति चेदुच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कुटानि, विद्युत्प्रभामाल्यवतोर्नवनव, तेषु च कूटेषु है धूमिकाऽवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति, ततो विशेषाधिकाः । स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात्तुल्याः।। तेभ्यः पूर्वस्यां दिशि असंख्येयगुणाः, क्षेत्रस्यासंख्येयगुणत्वात्। तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषि-६ रभावतो बहूनां पुद्गलानामवस्थानभावात् । तथा तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, बहुभवनशुषिरभावात् । तेभ्योऽपि उत्तरस्यां दिशि विशेषाधिकाः, यत्रोत्तरस्यामायामविष्कम्भाभ्यां संख्येययोजनकोटीप्रमाणं मानसं सरः समस्ति, तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्तेऽतिबव इति तेषां ये तैजसकार्मणपुद्गलास्तैरधिकाः प्राप्यन्ते इति । पूर्वोक्तेभ्यो विशेषाधिकाः॥११॥ अथ जीवानां पुद्गलानां चाल्पबहुत्वमुक्त्वा विज्ञप्तिमाहअप्पबहुत्तसरूवं इय दिलु केवलेण नाह!तुमं। अह तह कुणसु पसायं अहमवि पासेमि जह सक्खं ॥१२॥ हे नाथ ! इदं पूर्वोक्तमल्पबहुत्वस्वरूपं त्वया केवलज्ञानेन दृष्टं नान्येन हरिहरादिदेवेन । अथ तथा मम प्रसादं कुरु,
CRECEMERRORSCHEMERGENGRECRk
AND
Page #16
--------------------------------------------------------------------------
________________
अल्प.स्तव.
यथाऽहमपि पूर्वोक्तमल्पबहुत्वं साक्षात्पश्यामि ॥ १२॥ अथ प्रार्थनां कुर्वन् स्तवनकर्ता स्वनामगर्भितामन्तिमगाथामाहइय चउदिसासु भमिओ तुह आणा वजिओ य वीर!अहं ।गणिसमयसुंदरोहिं थुणिओ संपइ सिवं देसु१३/
॥ इत्यल्पबहुत्वविचारगर्भितं श्रीमहावीरस्तवनं संपूर्णम् ॥ हे वीर ! इति पूर्वोक्तप्रकारासु चतसृषु दिक्षु अहं तवाज्ञारहितो भ्रान्तः। संप्रति शिवं देहि । किविशिष्टस्त्वम् ? "गणिसमयसुंदरेहिं थुणिओ" गणय आचार्याः समयसुन्दराः सिद्धान्तविचारविशारदाः, ततो गणयश्च समयसुन्दराश्च गणिसमयसुन्दराः, तैः स्तुतः। पक्षे समयसुन्दरेति कर्तुर्नाम ॥ १३ ॥
इति श्रीअणहिल्लपत्तनवास्तव्यसिद्धान्तसूक्ष्मविचाररसिकचोपडागोत्रीयपरीक्षकदेवजीसमभ्यर्थनया श्रीबृहत्खरतरग|च्छाधीश्वरयुगप्रधानश्रीपजिनचन्द्रसूरिसूरीश्वरशिष्यमुख्यपण्डितसकलचन्द्रगणिशिष्यवाचनाचार्यश्रीसमयसुन्दरगणिविरचितमल्पबहुत्वविचारगर्भित श्रीमहावीरदेवबृहत्स्तवनं संपूर्णम् ॥
LETMEERUARREAR
BaselcosaksekcolhalGIGBellwoladiwaliBeeGIGeolalsotselseisalcoviesdiselsewoseisoGOG4
समाप्तमिदं सावचूरिकमल्पबहुत्वविचारगर्भितं श्रीमहावीरस्तवनम् ।
yeyesyenyeagenyenyenyonyogeneryoneryonergeneryoneneroyeeyeseaegeregroyeyenemergeneyes
।
R
Page #17
--------------------------------------------------------------------------
________________
॥ अर्हम् ॥
॥ महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ॥
(अवचूर्या समलङ्कृतम् )
| भीमे भवंमि भमिओ जिणिंद आणाइवजिओ जाई । जिअअप्पबहुट्टाणाइं विन्नविस्सामि ताइं अहं ॥१॥ गव्भयमणुया थोवा १ संखगुणा थी २ असंखगुण दुन्नि । बायरपज्जग्गि ३ अणुत्तरा सुरा ४ सत्त संख इमे २॥
भीमे० ॥ १ ॥ स्तोका गर्भजमनुष्याः, संख्येयकोटा कोटीप्रमाणत्वात् १ | मनुष्यस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् सप्तविंशत्यधिकत्वाच्च । उक्तं च- “ तिगुणा तिरुवअहिया सगवीसगुणा उ सत्तावीसहिया । बत्तीसगुणा वत्ती - सअहिअ तिरिनरसुरत्थि कमा १ ॥ " २ । बादराग्नयः पर्याप्ता असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् । इदमुक्तं भवति — असंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकाया घनो न पूर्यते, असत्कल्पनया आवलिकायां दश १० समयाः कल्प्यन्ते तद्वर्गे १०० एते चासंख्यातवर्गाः कल्पनया दशापि भवन्ति, परं तावन्तो न कल्प्यन्ते, धनस्य संपूर्णस्य संभवात् । तथा ह्यावलिकायां दश समयास्तेषां च घनः सहस्रं दशभिरपि तद्वगैः सहस्रं
१ "बायरपजग्गि ३ अणुत्तरसुरा य ४ कम सत्त संख इमे" इत्येवंरूपेण क्वचित् । २ "सप्तविंशत्यधिकसप्तविंशतिगुणत्वात्" इत्यपि कचित् । ३ इतोर्वाकू - " तावता " इत्यधिकं क्वचित् । ४ कचित् "संपूर्णतासंभवात्" इत्यपि ॥
Page #18
--------------------------------------------------------------------------
________________
महादं. स्तो.
॥ ७ ॥
संपद्यते इति घन संपूर्णता । तस्मादष्टौ नव वावलिकागर्भा वर्गाः कल्प्यन्ते । तथा च सति ८००/९०० प्रमाणा वा सद्भा वितस्त्वसंख्येया बादरपर्याप्ता अग्निकायिकाः सिद्धाः स्युः ३ । अनुत्तरोपपातिनोऽसंख्येयाः, प्रमाणाङ्गुलश्रेण्यसंख्येय भागप्रदेशराशिप्रमाणत्वात् क्षेत्रपल्योपमासंख्येय भागवर्तिनभः प्रदेशराशितुल्या इत्यर्थः ४ ॥ २ ॥
उवरिम ५ मज्झिम ६ हिट्टिम ७ अचुया ८ रण ९ पाणया १० णय ११ सुराय ।
चउदस असंख माघवइ १२ मघा १३ सहसार १४ महसुका १५ ॥ ३ ॥
उपरितनचैवेयक त्रिकदेवा: संख्येयगुणाः, बृहत्तराङ्गुलश्रेणिसंख्येय भागप्रदेशराशिप्रमाणत्वात् । यतोऽनुत्तरसुराणां पञ्च, उपरितनयैवेयक त्रिके शतं विमानानां प्रतिविमानं वासंख्येया देवा यथा चाधोऽधोविमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति । एवमुत्तरचापि भावना यावदानतः ५ | मध्यमत्रैवेयकदेवाः संख्येयगुणाः ६ । अधस्तनयैवेयकदेवाः संख्येयगुणाः ७ । अच्युतदेवाः संख्येयगुणाः ८ । आरणदेवाः संख्येयगुणाः ९ । यद्यपि आरणाच्युतौ समश्रेणीको समविमान संख्याको च; तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् । बहवश्च कृष्णपा - क्षिकाः स्तोकाः शुपाक्षिका इति । येषां किंचिदूनपुद्गलपरावर्तार्धमात्र संसारस्ते शुक्लपाक्षिकाः, अन्ये तु कृष्णपाक्षिकाः । तथास्वाभाव्यं च पूर्वाचार्यैरेवमवर्ण्यत - कृष्णपाक्षिका दीर्घसंसारिणः ते च बहुपापोदयाद्भवन्ति, ते च क्रूरकर्माणः, प्रायस्तथा स्वाभाव्यात् । भवसिद्धिका अपि दक्षिणस्यामुत्पद्यन्ते, न शेषासु दिक्षु । उक्तं च- " पायमिह कूरकम्मा भवसिद्धी
१" - रेवं वर्ण्यते" इत्यपि क्वचित् ॥
सावचूरि०
॥ ७ ॥
Page #19
--------------------------------------------------------------------------
________________
A
Ta
w aanHILAIMILMiDuraKAHASWERSamacaramin
आवि दाहिणल्लेसु । नेरइयतिरियमणुया सुराइठाणेसु गच्छति १॥" प्राणतदेवाः संख्येयगुणाः १० आनतदेवाः संख्ये
यगुणाः ११ । सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतलोकैकप्रादेशिकीश्रेण्यसंख्येयभागवर्तिनभ प्रदेशराशितुल्या, 18 परं श्रेण्यसंख्येयभागोऽसंख्येयभेदभिन्नस्तेन यथोत्तरमसंख्येयगुणाः १२ । षष्ठ्यामसंख्येयगुणाः १३ । सहस्रारेऽसंख्येयगुणाः १४ शुक्रेऽसंख्येयगुणाः, यतः सहस्रारे ६ शुक्रे ४० सहस्राणि विमानानामधोऽधोविमानेषु देवानां बहुबहुतरत्वाच्च१५॥३॥
रिट्टा १६ लंतक १७ अंजण १८ बंभय १९ वालुय २० महिंद २१ सणकुमरा २२ ।
सकरपह २३ मुच्छिमनर २४ ईसाणसुरा य २५ अह तिन्नि ॥४॥ ततः पञ्चभ्यां नरकपृथिव्यामसंख्येयगुणाः १६ । ततो लान्तकदेवा असंख्येयगुणाः १७ । ततश्चतुर्थ्यां नैरयिका असंख्येयगुणाः १८ । ततो ब्रह्मदेवलोके देवा असंख्येयगुणाः १९ । ततस्तृतीयस्यां नरकपृथिव्यां नैरयिका असंख्ययगुणाः २०। ततो माहेन्द्रदेवा असंख्येयगुणाः २१ । ततः सनत्कुमारदेवा असंख्येयगुणाः २२ । ततो द्वितीयस्यां नारका असं. ख्येयगुणाः २३ । ततः संमूच्छिपमनुष्या असंख्येयगुणाः २४ । तत ईशानदेवा असंख्येयगुणाः २५ । अङ्गुलमात्रक्षेत्रा. देशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतलोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभप्रदेशास्तावत्प्रमाण ईशानदेवदेवीसमुदायः। तद्गतकिजिदूनद्वात्रिंशत्तमभागकल्पा ईशानदेवाः । इदमुक्तं भवति-प्रतरस्याङ्गलप्रमाणं यत् क्षेत्र तत्र सद्भावतोऽसंख्याताः प्रदेशाः, ते च २५६ परिकल्प्यन्ते ।
१ "अह संखा" इत्यपि ।।
ASLEE
m uKEERENNETREE
AnnuaHICHANEESHEREMEलताका
Page #20
--------------------------------------------------------------------------
________________
Rameen
महादं.स्तो. अस्य च राशेः प्रथम द्वितीयं तृतीयं च वर्गमूलं गृह्यते, तानि च क्रमात् १६ । ४ । २ प्रमाणानि परिकल्प्यन्ते । द्वितीयं सावचूरि०
४ तृतीयेन २ गुणितं ८ प्रदेशा एतावतीषु प्रतरश्रेणिषु यावन्त आकाशप्रदेशास्तावन्त्य ईशानदेवदेव्यः । प्रस्तुतसूत्रे सामान्येनेशानादिव्यन्तरपर्यन्ता असंख्येयश्रेणिसमा उक्काः। स्वस्वस्थाने किञ्चिद्विशेषोऽपि दर्शयिष्यते ॥ ४ ॥
ईसाणदेवि २६ सोहंमजुअल २७।२८ संखा असंख भवणवई २९ ।
तद्देवी संखगुणा ३० असंख रयणपह ३१ खगपुरिसा ३२॥५॥ 18 ईशानदेव्यः संख्येयगुणाः २६ । सौधर्मदेवाः संख्येयगुणाः । माहेन्द्रापेक्षया सनत्कुमारदेवा असंख्येयगुणा उक्ताः, द इहापि दक्षिणस्यां कृष्णपाक्षिकोत्पत्यादिपूर्वोक्तयुक्तः समानत्वेऽप्यत्र संख्येयगुणत्वं, वचनप्रामाण्यात् २७ । सौधर्मदेव्यःला
संख्येयगुणाः २८ । भवनवासिनो देवा असंख्येयगुणाः यतोऽङ्गलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयद्र वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु लोकश्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेहै वीवर्गः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पाश्च देवाः २९ । संख्येयगुणाभवनपतिदेव्यः ३० । ततो रत्नप्रभानारका असं
ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु दू यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् ३१॥ ततः खगपञ्चेन्द्रियतिर्यगपुरुषा असंख्येयगुणाः, प्रतरासंख्येयभागवर्यसंख्ये-14 यश्रेणिनभ प्रदेशराशिप्रमाणत्वात् ॥ ३२ ॥५॥
१ "सोहमसुर २७ देवि २८ तओ" इत्येवंरूपेण कचित् ॥
GRASSICOSSOCIAIS
Page #21
--------------------------------------------------------------------------
________________
संखा खयरी ३३ थल ३४ । ३५ जलयर ३६ । ३७ नंतर ३८ । ३९ जोइसाण ४०/४१ चउ जुअलं । कीवा नह ४२ थल ४३ जलयर ४४ पजत्त चउरिंदिया ४५ तेर ॥ ६ ॥
ततः खगपञ्चेन्द्रियस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् ३३ । स्थलचरपञ्चेन्द्रियतिर्यगूपुरुषाः संख्येयगुणाः, वृहत्तरप्रतरासंख्येय भागवर्त्य संख्येयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् ३४ । तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् ३५ । जलचरपञ्चेन्द्रियपुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयश्रेणिप्रदेशप्रमाणत्वात् ३६ । तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् ३७ । ततो व्यन्तरदेवाः संख्येयगुणाः, यतः संख्ये ययोजन प्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावान् व्यन्तरदेवदेवीगणः तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः ३८ । व्यन्तर्यः संख्येयगुणाः ३९ । ज्योतिष्कदेवाः संख्येयगुणाः, ते हि सामान्यतः २५६ अङ्गुलप्रमाणसूचीखण्डतुल्या यावन्त्य एकस्मिन् प्रतरे श्रेणयो भवन्ति तावत्प्रमाणाः, तद्गत किंचिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिर्देवाः ४० । ततो ज्योतिर्देव्यः संख्येयगुणाः ४१ । ततः खगपञ्चेन्द्रियतिर्यग्रषण्ढाः संख्येयगुणाः ४२ । स्थलचरा नपुंसकाः संख्येयगुणाः ४३ । ततो जलचरा नपुंसकाः संख्येयगुणाः ४४ । ततः पर्याप्तचतुरिन्द्रिया संख्येयगुणाः ४५ ॥ ६ ॥
पज पण ४६ बिय ४७ तिइंदिय ४८ अहिआ अस्संखऽपज पंचिंदी ४९ । अहिया अपज्ज चउ ५० तिय ५१ बिइंदि ५२ बारस असंखइमे ॥ ७ ॥
ततः पञ्चेन्द्रियाः पर्याप्ताः संज्ञ्यसंज्ञिभेदेन विशेषाधिकाः ४६ । पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७ । पर्याप्तास्त्रीन्द्रिया
Page #22
--------------------------------------------------------------------------
________________
amusaram
NUTENERARIEEE
n
महादं.स्तो. विशेषाधिकाः। यद्यपि पर्याप्तचतुरिन्द्रियादित्रीन्द्रियपर्यन्तानामङ्गलासंख्येयभागमात्राणि सूचिखण्डानि यावन्त्येकस्मिन् सावचूरिक
प्रतरे भवन्ति तावत्प्रमाणत्वेऽपि अङ्गुलसंख्येयभागस्य संख्ययभेदत्वात् इत्थं विशेषाधिकत्वं न विरुद्धम् ४८ । अपर्याप्ताः पञ्चेन्द्रिया असंज्ञिनोऽ संख्येयगुणाः, अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवति । तावत्प्रमाणत्वात् ४९ । अपर्याप्ताश्चतुरिन्द्रिया विशेषाधिकाः ५० । ततोऽपर्याप्तास्त्रीन्द्रिया विशेषाधिकाः ५१ । ततोद्वी. न्द्रिया अपर्याता विशेषाधिकाः । अपर्याप्तपञ्चेन्द्रियादीनां चतुर्णा समानसंख्याप्रकारत्वेऽप्यनुलासंख्येयभागस्य विचित्रत्वादू इत्थं विशेषाधिकत्वमदुष्टम् ५२ ॥७॥
वायरपज्जपरित्ता ५३ निगोअ ५४ भू ५५ दग ५६ समीर ५७ तह अपजा।
थलग्गि ५८ परित्त ५९ निगोअ६० पुढवि ६१ जल ६२ पवण ६३ सुहमग्गी ६४ ॥८॥ प्रत्येकबादरजनस्पतयः पर्याप्ता असंख्येयगुणाः, द्वीन्द्रियादिवदेषामपि वक्ष्यमाणबादरपर्याप्त निगोदपृथिव्यप्कायिकानामपि च एकप्रतरगताकुलासंख्येयभागमात्रसूचीरूपखण्डप्रमाणत्वस्यान्यत्राविशेषणोक्तावप्यङ्गलासंख्येयभागस्यासंख्येयभेदत्वादसंख्येयगुणत्वाभिधानेऽपि न दोषः ५३ । बादरनिगोदाः अनन्तकायिकशरीरूपाः पर्याप्ता असंख्येयगुणाः ५४ ततो बादरपृथिवीकायिकाः पर्याप्ता असंख्येयगुणाः ५५ । बादराप्कायिकाः पाँप्ता असंख्येयगुणाः ५६ । ततो वादरवायुका-Khan यिकाः पर्यावा असंख्येयगुणाः, घनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतनभःप्रदेशराशिप्रमाणत्वात् लोके सप्तरज्वायामविष्कम्भा एक प्रदेशप्रमाणपिण्डाः सर्वात्मनात्वसंख्येयनभःप्रदेशप्रमाणा उपर्युपरिव्यवस्थितप्रभूतमण्डका इवासंख्येयाः
AMALSCRESCUSRESCRROUNSCA
maaaainamai
EEEEसार
REE
Page #23
--------------------------------------------------------------------------
________________
SASARAECRESCRECESSAGESEX
प्रतराः सन्ति ५७। ततो बादरामयोऽपर्याप्ता असंख्येयगुणाः, असंख्येयलो काकाशप्रदेशराशिप्रमाणत्वात् ५८॥ ततः प्रत्येक बादरवनस्पतयोऽपर्याप्ता असंख्ययगुणाः ५९। ततो वादरनिगोदा अपर्याप्ता असंख्येयगुणाः ६०। बादरपृथिव्योऽपर्याप्ता असंख्येयगुणाः ६१। बादरा अप्कायिका अपर्याप्ता असंख्येयगुणाः ६२। बादरवायवोऽपर्याप्ता असंख्येयगुणाः ६३ । सू-151 माग्नयोऽपर्याप्ता असंख्येयगुणाः ६४ ॥८॥
सुहमा अपजभू ६५ वारि ६६ वाउ ६७ अहिआ पजग्गि ६८ संखगुणा । भू ६९ जल ७० निल ७१ अहिअ निगोअ अपज ७२ असंख पज संखा ७३ ॥९॥ अभविय ७४ परिवडिया ७५ सिद्ध ७६ पज्जबायरवणा ७७ अणंतगुणा ।
बायरपज्जत्तहिया ७८ अपजबायरवण ७९ असंखा ॥ १०॥ सूक्ष्मपृथिव्योऽपर्याप्ता विशेषाधिकाः ६५ । सूक्ष्मा कायिका अपर्याप्ता विशेषाधिकाः ६६ । सूक्ष्मवायवोऽपर्याता विशे-र पाधिकाः ६७ । सूक्ष्माग्नयः पर्याप्ताः सख्ययगुणाः ६८ । सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः ६९ । सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः ७०। सूक्ष्मवायवः पर्याप्ता विशेषाधिकाः ७१। सूक्ष्मनिगोदा अपर्याप्ता असंख्येयगुणाः ७२।
सूक्ष्मनिगोदाः पर्याप्ताः संख्येयगुणाः,यद्यपिपर्याप्ताग्निकायिकादिपर्याप्तसूक्ष्मनिगोदपर्यन्ता अविशेषेणान्यत्रासंख्येयलोकाका-14 * शप्रदेशराशितुल्याः उक्ताः, तथापि लोकासंख्येयत्वस्यासंख्येयभेदभिन्नत्वादित्थमल्पबहुत्वमुपपन्नम् ७३ ॥९॥ अभवसि
RDCRENCRACHER-OCT--54-
555
Page #24
--------------------------------------------------------------------------
________________
सावचूरि०
महादं-स्तो. ॥१०॥
द्धिका अनन्तगुणाः, जघन्ययुक्तानन्तकमानत्वात् ७४ । प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः, मध्यमयुक्तानन्तकमानत्वात् ७५। सिद्धा अनन्त गुणाः ७६ । बादरपर्याप्ता वनस्पतयोऽनन्तगुणाः ७७ । सामान्यतो वादरपर्याप्ता अधिकाः, बादरपर्याप्तपृथिव्यादीनां तत्र क्षेपात् ७८ । ततो बादरापर्याप्तवनस्पतयोऽसंख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असंख्येयानां बादरापर्याप्तनिगोदानां संभवात् ७९॥ १०॥
बायर अपज ८० बायर ८१ अहिया अस्संख सुहम अपज वणा ८२।
सुहम अपजत्त अहिया ८३ संखा सुहमवणपज्जत्ता ८४ ॥११॥ अहिआ पजसुइमा ८५ सुहम ८६ भविय ८७ णंत ८८ वणि ८९ गिदि ९० तिरि ९१ मिच्छा ९२|| |अविरय ९३ कसाय ९४ छउमा ९५ सजोगि ९६ संसारि ९७ सबजिया ९८॥१२॥ । ततः सामान्यतो वादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् ८० । ततः सामान्यतो बादरा |विशेषाधिकाः, पर्याप्तानां तत्र प्रक्षेपात् ८१ । ततः सूक्ष्मवनस्पतयोऽपर्याप्ता असंख्येयगुणाः ८२ । ततः सामान्यतः ६ सूक्ष्मापर्याप्ता विशेषाधिकाः, सूक्ष्मापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् ८३ । ततः सूक्ष्मवनस्पतयः पर्याप्ताः संख्येयगुणाः,
सूक्ष्मेषु अपर्याप्तेभ्यः पर्याप्तानां स्वभावत एव संख्येयगुणत्वात् ८४ ॥ ११ ॥ ततः सामान्यतः सूक्ष्माः पर्याप्ता विशेषा|धिकाः, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् ८५ । ततः सामान्यतः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र
१ "इतोऽग्रे—“मध्यमयुक्तानन्तकमानत्वात्" इत्यधिकं कचित् ॥
॥१०॥
Page #25
--------------------------------------------------------------------------
________________
हा प्रक्षेपात् ८६ । ततो भवसिद्धिका विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् ८७।।
ततः सामान्यतो । निगोदजीवा विशेषाधिकाः, प्रत्येकानां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वेव नाल्पत्वात् शेषाणां भव्यानामभव्यानां च बादरसूक्ष्मनिगोदेष्वेवातिप्राचुर्येण लभ्यमानत्वात् ८८ ततः सामान्यतो वनस्पहातयो विशेषाधिकाः, यतः प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् ८९ । ततः सामान्यत एकेन्द्रिया विशेषाधिकाः, वाद-IG
रसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् ९० । ततः सामान्यतस्तिर्यञ्चो विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ९१ ततो मिथ्यादृष्टयो विशेषाधिकाः, कतिपयाविरतसम्यग्दृष्ट्यादिव्यतिरेकेण सर्वजीवानां मिथ्यादृष्टित्वात् ९२ । ततोऽविरता
विशेषाधिकाः, अविरतसम्यग्दृष्टीनामपि तत्र क्षेपात् ९३ । ततः सकपायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र 1 क्षेपात् ९४ । ततः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र क्षेपात् ९५ । ततः सयोगिनो विशेषाधिकाःसयोनागिकेवलिनामपि तत्र प्रक्षेपात् ९६॥ ततो भवस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ९७। सर्वजीवा विशे-- Pषाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् ९८ ॥ १२ ॥ 18 गुणतीसअंकतुल्ला मणुआ तेसि नरअहवीसंसे । इगरूवूण जहन्ना सेसा इत्थी उ गब्भभवा ॥ १३॥5
पर्याप्तस्थूलवणादिसर्वजीवान्ताः सर्वेमध्यमानन्तके वर्तन्ते । “जहन्नपए संखिज्जा” इति जघन्यपदं नाम यत्र सर्वस्तो|का मनुष्याः प्राप्यन्ते किमत्र संमूर्छिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? गर्भजानां सदावस्थायितया तेषामेव ग्रहणं । संमूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् । उत्कृष्टपदे तूभयेषामपि ग्रहणम् । एक रूपं संस्थापयित्वा षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृते चैकोनत्रिंशदङ्करूपा मनुष्यसंख्या जघन्यपदे समेति "इगरूवूणजहन्ना" इति ॥ १३ ॥
RSS RESMSACSROGRESSIOSREES
Page #26
--------------------------------------------------------------------------
________________
महादं स्तो. किंचूणावलिघणसमयरासितुल्ला उ बायरपजग्गी । णुत्तरसुराइ अट्ठ उ खित्तपलोवम असंखंसे॥१४॥ सावरि०
आवलिकासमय १० वर्गस्य १०० कतिपयसमयन्यूनरावलिकासमय ८ गुणितस्य ८० यावान् समयराशिस्तावत्प्रमाणा ॥११॥
ल बादरपर्याप्ताग्निजीवाः । उक्तं च--"आवलिआ वग्गोणावलिआइ गुणिओ हि वायरा तेऊ" ॥ १४ ॥
माघवयाई तेरस कमसो सेढी असंखभागेणं । सतरस ईसाणाई असंखसेढिप्पएससमा ॥ १५ ॥ | सप्तरज्वेकप्रादेशिकश्रेण्यसंख्येयभागप्रदेशराशितुल्या अङ्गुलमात्रक्षेत्रप्रदेशराशेः कल्पनया २५६ रूपस्य संबन्धेन द्वितीजयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावन्मितश्रेणिप्रदेशप्रमाणाः १ । १५॥
तिगुणा तिरूवअहिआ सगवीसगुणा उ सत्तवीसहिया। बत्तीसगुणा बत्तीस अहिअतिरिनरसुरत्थि कमाल PI षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्ति एकस्मिन् प्रतरे भवन्ति, येषां द्वात्रिं-18
शत्तमो भागस्तावत्प्रमाणादेवपुरुषाः।तेभ्यो द्वात्रिंशत्तमे भागे प्रसारिते यावान् प्रदेशराशिः स्यात् तावत्प्रमाणाः सुरस्त्रियः१६|| हा कीवखयराइसत्तसु अंगुलसंखं सपयरसेढिहरे । अपजपणिंदादट्टसु अंगुलअस्संखभागो अ॥१७॥
एकस्मिन् प्रतरे यावन्त्यङ्गुलप्रमाणसंख्येयभागमात्राणि सूचीखण्डानि भवन्ति तावत्प्रमाणाकुलासंख्येयभागमात्राणि ४॥ सूचीरूपखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः ॥ १७ ॥
५. १ चतुर्दशगाथातः समारभ्यावेतना सर्वाप्यवचूरिः एकस्मिन्नेव पुस्तके समुपलभ्यते, परं सोपयोगिनीति मूल आहता ॥
॥११॥
Page #27
--------------------------------------------------------------------------
________________
अस्संखपयरतुल्ला वायरपज्जत्तवाउकाया य । वायरअपज्जजलणाइ सोल अस्संखलोगसमा ॥१८॥ अभवियचउत्थणंते पंचमि सम्माइ परिवडिय सिद्धा।सेसा अहमणंते पजथूलवणाइ बावीसं ॥१९॥ इय महदंडमसइं भमिओणुत्तरपयत्थसिद्धि विणा । संपइ तुह आणठिओ सामि अणुत्तरपयं देसु ॥२०॥
॥ समाप्तमिदं महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ॥
ALSRIENCIENCECTESUSCHOOLESTEGOROCK
DIGOGolmosomesesselbowelwalpiploisolve@Display
* समाप्तमिदं सावचूरिकमल्पबहुत्वविचारगर्भितं महादण्डकस्तोत्रम्।।
e
yeneryenanaayegenyeeyosyoryenerjeremogenresereemoryesomegreeneryenyeyeyosessage
Page #28
--------------------------------------------------------------------------
________________ - - --- -- - -- समाप्तमिदंसावचूरिकमल्पबहुत्वविचारगर्भितं महादण्डकस्तोत्रम्। -SERS-SHRS-RS-SERED 109106100106100109.12.100000000000000000000000sonli ANSAMACPNAPNARASTAVAASTAR