SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ॥ (अवचूर्या समलङ्कृतम् ) | भीमे भवंमि भमिओ जिणिंद आणाइवजिओ जाई । जिअअप्पबहुट्टाणाइं विन्नविस्सामि ताइं अहं ॥१॥ गव्भयमणुया थोवा १ संखगुणा थी २ असंखगुण दुन्नि । बायरपज्जग्गि ३ अणुत्तरा सुरा ४ सत्त संख इमे २॥ भीमे० ॥ १ ॥ स्तोका गर्भजमनुष्याः, संख्येयकोटा कोटीप्रमाणत्वात् १ | मनुष्यस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् सप्तविंशत्यधिकत्वाच्च । उक्तं च- “ तिगुणा तिरुवअहिया सगवीसगुणा उ सत्तावीसहिया । बत्तीसगुणा वत्ती - सअहिअ तिरिनरसुरत्थि कमा १ ॥ " २ । बादराग्नयः पर्याप्ता असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् । इदमुक्तं भवति — असंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकाया घनो न पूर्यते, असत्कल्पनया आवलिकायां दश १० समयाः कल्प्यन्ते तद्वर्गे १०० एते चासंख्यातवर्गाः कल्पनया दशापि भवन्ति, परं तावन्तो न कल्प्यन्ते, धनस्य संपूर्णस्य संभवात् । तथा ह्यावलिकायां दश समयास्तेषां च घनः सहस्रं दशभिरपि तद्वगैः सहस्रं १ "बायरपजग्गि ३ अणुत्तरसुरा य ४ कम सत्त संख इमे" इत्येवंरूपेण क्वचित् । २ "सप्तविंशत्यधिकसप्तविंशतिगुणत्वात्" इत्यपि कचित् । ३ इतोर्वाकू - " तावता " इत्यधिकं क्वचित् । ४ कचित् "संपूर्णतासंभवात्" इत्यपि ॥
SR No.600336
Book TitleAlpbahutva Garbhitam Mahavir Stavanam
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherAtmanand Jain Sabha
Publication Year1914
Total Pages28
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy