________________
॥ प्रस्तावना ॥
RECECAUS
इदमल्पबहुत्वगर्भितं त्रयोदशगाथात्मकं श्रीमन्महावीरखामिविज्ञप्तिरूपस्तवनं जैनागमपारावार पारीणपूज्यपादश्रीमच्छयामाचार्याचार्यपुङ्गवसङ्कलितप्रज्ञापनोपाङ्गतृतीयपदप्रथमद्वारात्समुद्धृत्य संहब्धमिति पीठिकावलोकनेन स्फुटमवगम्यते । अस्य प्रणेतारोऽष्टलक्षीकल्पलता. दिभूरितरग्रन्थग्रथनपटुतरमतिविभवाः श्रीवृहत्खरतरगच्छाधीशश्रीमजिनचन्द्रसूरिशिष्यसकलचन्द्रगणिशिष्यवाचनाचार्यश्रीसमयसुन्दरगणयः, इत्यस्यावसानगाथातदवचूरिनिरीक्षणेन प्रकटमेव प्रतिभाति । एभिरेव वाचंयमचूडामणिभिरेतत्करणे प्रयोजनमप्यस्य प्रान्ते प्रदर्शितमेव ।
एतेषां सत्तासमयस्तु जिनशासनेऽस्मिन् विक्रमार्कीयसप्तदशशताब्दयां सुप्रसिद्ध एव, इत्यतस्तत्तदन्थप्रशस्तिगतानि प्रमाणान्यपि नोपन्यस्तानि । का अस्मिन्नल्पबहुत्वविचारगर्भितवीरस्तुतौ सिद्धान्तखापतेयसारैः स्तुतिकारैः प्रथमतो नवसु गाथासु सामान्येन सप्तदशभेदभिन्नानां जीवानां पूर्वादिदिशः समाश्रित्याल्पबहुत्ववर्णनम्, दशमैकादशगाथयोस्तु पुद्गलानां षट्सु दिश्वल्पबहुत्वनिरूपणम् , द्वादशत्रयोदशगाथयोः पुनः श्रीमन्महावीरजिनविज्ञप्त्यादिकरणं इत्येते विषयाः सप्रपञ्चं प्रपञ्चिताः सन्ति ।
एतदल्पबहुत्वगर्भितश्रीमहावीरस्तवनपुस्तकगवेषणपरायणेन मया भूयो भूयः प्रायतिषि परं केवलं पत्तनस्थतपगच्छचित्कोषसक्तं | श्रेष्ठि-लेहेरचन्द्र-हालाभाई-द्वारा नातिशुद्धमेकं पुस्तकं समुपलब्धम् , एतदाधारेणैव संशोधितं च ।
A
Ans
mare