________________
%
-
अल्प.स्तव.
प्रस्तावना.
॥१॥
द्वितीयस्यास्य महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनस्य अवचूर्याश्च के परोपकृतिकर्म कर्मठाः बतिनेतारः प्रणेतारः ? इत्येतद्विषयनिर्णयस्तु कर्तु न पार्यते, अत्र क्वापि तेषामभिधेयादिकस्यानुपलम्भात् । परं "संव० १४८६ सोमवारे" इति लिखितपुस्तकादर्शदर्शनेन नार्वाचीनमिति निश्चीयते ।
____ संशोधितेऽप्यत्र निबन्धे मतिमान्द्यादक्षरयोजकदोषाद्वा यत्र कचनाशुद्धिः कृता जाता वा भवेत् तत्र संशोधनीयं विपश्चिदपश्चिमैरिति प्रार्थयते प्रकल्पिताञ्जलिः
प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः
चतुरविजयो मुनिः।
kCASS-XA5
॥
१
॥