________________
अल्प.स्तव
SIGISISSSSSSSSS
अथ मनुष्यसिद्धतैजसकायिकानामल्पबहुत्वमग्रेतनगाथयाह
सावरि० मणुयाँ सिद्धों तेॐ सत्वत्थोवा य दाहिणुत्तरयो।पुविं संखा पच्छिम अहिया कहिया तुमे नाह!॥३॥ । हे नाथ ! "तुमे" त्वया "मनुजाः" मानवा दक्षिणोत्तरयोर्दिशोः सर्वस्तोकाः कथिताः । कथम् ? दक्षिणस्यामुत्तरस्यां च दिशि पञ्चानां भरतक्षेत्राणां पञ्चानामैरावतक्षेत्राणामल्पत्वात् । तेभ्यः "पुविं संखा" इति पूर्वस्यां दिशि संख्येयगुणाः,| क्षेत्रस्य संख्येयगुणत्वात् । तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाधोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ८ । एवं च पुनः हे नाथ ! त्वया सिद्धा दक्षिणोत्तरयोर्दिशोः सर्वस्तोकाः कथिताः । कथम् ? इति चेदुच्यते, इह ६ मनुष्या एव सिध्यन्ति, नान्ये । मनुष्या अपि सिध्यन्तो येषु आकाशप्रदेशेषु इह च चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषु ऊर्ध्वमपि गच्छन्ति, तेष्वेव चोपर्यवतिष्ठन्ते न मनागपि वकं गच्छन्ति सिध्यन्ति वा । तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि पश्चस्वैरावतेषु मनुष्या अल्पाः क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः। तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, पूर्व विदेहानां भरतैरावतक्षेत्रेभ्यः संख्येयगुणतया तद्गतमनुष्याणामपि4 संख्येयगुणत्वात् , तेषां सर्वकालं सिद्धिभावात् । तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् ९ । तथा "तेज" इति तेजस्कायिकाः, उक्तिः पूर्ववत् । सर्वस्तोका दक्षिणोत्तरयोर्दिशोः, यतो मनुष्यक्षेत्रे एव बादरास्तेजस्कायिकाः, नान्यत्र । तत्रापि यत्र बहवो मनुष्यास्तत्र ते बहवो बाहुल्येन पाकारम्भसंभवात् । यत्र त्वल्पे तत्र स्तोकाः। तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि पञ्चस्वैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां