SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ AMDEAKNESCORRECTECECEO नारका असंख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता। तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्विभाविदानोऽसंख्येयगुणाः । तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असंख्येयगुणाः । एवं सर्वास्वपि क्रमेण वाच्यम् १२ ॥४॥ अथ किंचिन्यूनगाथया जिनस्तुतिपूर्व पृथिवीकायिकानामल्पबहुत्वमाह| पुढवी दाहिण थोवा कमेण अहियाओ। उत्तरपुत्वावरदिसि तुज्झ नमो जेण निदिट्ठा १३॥५॥ हे वीर ! इति शेषः तस्मै तुभ्यं नमः । तस्मै कस्मै ? येन त्वया "पुढवी” इति पृथिवीकायिका दक्षिणस्यां दिशि सर्वस्तोकाः, तत उत्तरादिदिक्षु च क्रमेणाधिका निर्दिष्टाः केवलज्ञानेन विलोक्य गणधराणामग्रे वाचा प्रकाशिताः। कथंदक्षिपणस्यां दिशि सर्वस्तोकाः ? उच्यन्ते, इह यत्र घनं तत्र वहवः पृथिवीकायिकाः, यत्र शुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि बहवो नरकावासाः, ततः शुषिरं प्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीका|यिकाः। तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत्रोत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका नरकावासाः, ततो घनप्राभूत्यसंभवात् बहवः पृथिवीकायिका इति विशेषाधिकाः।तेभ्योऽपि पूर्वस्यां दिशि विशेषाधिकाः, रविशशिद्वीपानां तत्र भावात् । तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः । किंकारणम् ? इति तदुच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तो द्वीपाः पश्चिमायामपि, तत एवैतावता साम्यम् ; परं लवणसमुद्रे गौतमदीपः पश्चिमायामधिकोऽस्ति तेन विशेषाधिकाः। अत्रापर आह-ननु यथा पश्चिमायां दिशि गौतमद्वीपोभ्यधिकोऽस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाढाः सन्ति, ततः खातधूलिपूरितन्यायेन ते तुल्या एव पृथिवीका
SR No.600336
Book TitleAlpbahutva Garbhitam Mahavir Stavanam
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherAtmanand Jain Sabha
Publication Year1914
Total Pages28
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy