SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ MITUNEEMUSTAHINDE MIERE mwmemNNARENDER RECORRECREENERALCARRELIARLS तेभ्यो “अहिया" इति विशेषाधिकाः । अधोदिगपि रुचकादेवं भवति, चतुःप्रदेशा यावल्लोकान्तस्तत्र तस्या विशेषाधिकत्वात्तत्र पुद्गला विशेषाधिकाः । ततस्तेभ्य उत्तरपूर्वत्यां दक्षिणपश्चिमायां च द्वयोरपि दिशोरसंख्येयगुणाः । च पुनः स्वस्थाने परस्परं तुल्याश्च, यतस्ते द्वेऽपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमध्ये लोकान्तमूर्ध्वलोकान्तं च पर्यवसिते तेन क्षेत्रस्यासंख्येयगुणत्वात् तत्र पुद्गला असंख्येयगुणाः । क्षेत्रं तु स्वस्थाने सममिति पुद्गला अपि स्वस्थाने तुल्याः॥१०॥ तेभ्यो दक्षिणपूर्वस्या उत्तरपश्चिमायां च प्रत्येकं विशेषाधिकाः स्वस्थाने परस्परं तुल्याश्च । कथं विशेषाधिकाः ? इति चेदुच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कुटानि, विद्युत्प्रभामाल्यवतोर्नवनव, तेषु च कूटेषु है धूमिकाऽवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति, ततो विशेषाधिकाः । स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात्तुल्याः।। तेभ्यः पूर्वस्यां दिशि असंख्येयगुणाः, क्षेत्रस्यासंख्येयगुणत्वात्। तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषि-६ रभावतो बहूनां पुद्गलानामवस्थानभावात् । तथा तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, बहुभवनशुषिरभावात् । तेभ्योऽपि उत्तरस्यां दिशि विशेषाधिकाः, यत्रोत्तरस्यामायामविष्कम्भाभ्यां संख्येययोजनकोटीप्रमाणं मानसं सरः समस्ति, तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्तेऽतिबव इति तेषां ये तैजसकार्मणपुद्गलास्तैरधिकाः प्राप्यन्ते इति । पूर्वोक्तेभ्यो विशेषाधिकाः॥११॥ अथ जीवानां पुद्गलानां चाल्पबहुत्वमुक्त्वा विज्ञप्तिमाहअप्पबहुत्तसरूवं इय दिलु केवलेण नाह!तुमं। अह तह कुणसु पसायं अहमवि पासेमि जह सक्खं ॥१२॥ हे नाथ ! इदं पूर्वोक्तमल्पबहुत्वस्वरूपं त्वया केवलज्ञानेन दृष्टं नान्येन हरिहरादिदेवेन । अथ तथा मम प्रसादं कुरु, CRECEMERRORSCHEMERGENGRECRk AND
SR No.600336
Book TitleAlpbahutva Garbhitam Mahavir Stavanam
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherAtmanand Jain Sabha
Publication Year1914
Total Pages28
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy