Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 21
________________ संखा खयरी ३३ थल ३४ । ३५ जलयर ३६ । ३७ नंतर ३८ । ३९ जोइसाण ४०/४१ चउ जुअलं । कीवा नह ४२ थल ४३ जलयर ४४ पजत्त चउरिंदिया ४५ तेर ॥ ६ ॥ ततः खगपञ्चेन्द्रियस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् ३३ । स्थलचरपञ्चेन्द्रियतिर्यगूपुरुषाः संख्येयगुणाः, वृहत्तरप्रतरासंख्येय भागवर्त्य संख्येयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् ३४ । तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् ३५ । जलचरपञ्चेन्द्रियपुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयश्रेणिप्रदेशप्रमाणत्वात् ३६ । तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् ३७ । ततो व्यन्तरदेवाः संख्येयगुणाः, यतः संख्ये ययोजन प्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावान् व्यन्तरदेवदेवीगणः तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः ३८ । व्यन्तर्यः संख्येयगुणाः ३९ । ज्योतिष्कदेवाः संख्येयगुणाः, ते हि सामान्यतः २५६ अङ्गुलप्रमाणसूचीखण्डतुल्या यावन्त्य एकस्मिन् प्रतरे श्रेणयो भवन्ति तावत्प्रमाणाः, तद्गत किंचिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिर्देवाः ४० । ततो ज्योतिर्देव्यः संख्येयगुणाः ४१ । ततः खगपञ्चेन्द्रियतिर्यग्रषण्ढाः संख्येयगुणाः ४२ । स्थलचरा नपुंसकाः संख्येयगुणाः ४३ । ततो जलचरा नपुंसकाः संख्येयगुणाः ४४ । ततः पर्याप्तचतुरिन्द्रिया संख्येयगुणाः ४५ ॥ ६ ॥ पज पण ४६ बिय ४७ तिइंदिय ४८ अहिआ अस्संखऽपज पंचिंदी ४९ । अहिया अपज्ज चउ ५० तिय ५१ बिइंदि ५२ बारस असंखइमे ॥ ७ ॥ ततः पञ्चेन्द्रियाः पर्याप्ताः संज्ञ्यसंज्ञिभेदेन विशेषाधिकाः ४६ । पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७ । पर्याप्तास्त्रीन्द्रिया

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28