Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 10
________________ अल्प.स्तव. वड्डो पुग्गलपरियट्टो सेसओ य संसारो। ते सुक्कपक्खिया खलु अहिए पुण कण्हपक्खीओ१॥" अत एव च स्तोकाः शुक्ल- सावचूरि० N पाक्षिकाः, अल्पसंसारिणां स्तोकत्वात् । बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात् । कृष्णपाक्षिकाश्च प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु; तथास्वाभाव्यात् । तच्च तथास्वाभाव्यं पूर्वाचायरेवं युक्तिभिरुपबृह्यते । तद्यथा-कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते; दीर्घतरसंसारभाजिनश्च बहुपापोदयाद्भवन्ति; बहुपापोदयाच्च क्रूरकर्माणश्च प्रायस्तथास्वाभाब्यात् । तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते न शेषासु सर्वासु दिक्षु । यत उक्तम्-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिणलेसु । नेरइतिरियमणुया सुराइठाणेसु गच्छंति १॥" ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसंभवात् पूर्वोक्तकारणद्वयाच्च संभवन्ति। पूर्वोत्तरपश्चिमदिग्विभाविभ्यो दाक्षिणात्या |असंख्येयगुणाः । इति नारकाणां सामान्येनाल्पवहुत्वमुक्तम् । अथ प्रसङ्गात्सोपयोगित्वेन सप्तापि पृथिवीरधिकृत्य दिग्विभागेन नारकाणामल्पबहुत्वं प्रोच्यते । तथाहि-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्विभाविभ्यो नारकेभ्यो ये सप्तमपृथि-18 व्यामेव दाक्षिणात्यास्तेऽसंख्यातगुणाः । तेभ्यः षष्ठपृथिव्यां तमःप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्विभाविनोऽसंख्येय-। गुणाः । कथम् ? इति चेदुच्यते, इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यमनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते; किंचिद्धीनहीनतरपापकर्मकारिणश्च षष्ठ्यादिषु पृथिवीषु । सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोका बहवश्च यथोत्तरं किंचि-18 द्धीनहीनतरादिपापकर्मकारिणः । ततो युक्तमसंख्येयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपसे श्चिमनारकाणाम् । एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम् । तेभ्योऽपि तस्यामेव षष्ठपृथिव्यां दक्षिणस्यां दिशि CRORRECERECRECR-CAREER -

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28