Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
स्तोका व्यन्तराः। च पुनस्तेभ्यः पश्चिमदिशि विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरं संभवति । तेभ्योऽपि उत्तरस्यां दिशि विशेषाधिकाः स्वस्थानतया नगरावासबाहुल्यात् । तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावास| बाहुल्यात् ॥१५॥ अथ ज्योतिष्कानां दिगनुपातेन किंचिन्यूनपदत्रयेणाल्पबहुत्वमाह
थोवा य जोइसा तुला । पुवावरदिसि दाहिण उत्तर अहिया कमा भणिया १६ ॥ ७॥ दि। "थोवा" इति हे वीर ! त्वया ज्योतिष्काः "पुवावरदिसि" इति पूर्वस्यां दिशि पश्चिमायां दिशि च सर्वस्तोकाः परस्पर
तुल्याश्च भणिता निर्दिष्टाः, चन्द्रादित्यद्वीपेषु उद्यानकल्पेषु कतिपयानामेव तेषां भावात् । ततस्तेभ्योऽपि क्रमात् दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च । तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः,8 यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यावृत्त्या नित्यमासते मानससरसि च ये मत्स्यादयो जल
चरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणा किञ्चित् व्रतं पतिपद्य अशनादिः च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते, ॥ ततो भवन्त्यौत्तरा दक्षिणेभ्यो विशेषाधिकाः १६ ॥७॥ अथ वैमानिकानां विभागेन दिगनुपातेनाल्पबहुत्वमाह
पढमचउकप्पदेवा सवत्थोवा य पुवपच्छिमओ। उत्तरअसंख दाहिण अहिया तुह मयविऊ बिति॥८॥ बंभाइकप्पचउगे पुवत्तरपच्छिमासु थोव समा। दाहिण संखा तत्तो उवरिमदेवा य सम सवे १७॥९॥
हे वीर ! तव मतविदः सिद्धान्तिकाः प्रथमचतुष्ककल्पदेवाः सौधर्मेशानसनत्कुमारमाहेन्द्रकल्पभाविनः सुराः पूर्वस्यां : पश्चिमायां च दिशि सर्वस्तोकाः, चशब्दात्परस्परं तुल्याश्चेति ब्रुवन्ति । एवमुक्तिरग्रेऽपि सर्वत्र लापनीया । कथम् ? इति |
MUSCLEARURESSURESS
RECORRECCASSROOSSACRECENT

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28