Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 9
________________ LOCALSACREAC- CROSORBASISAMANARASIMALS दस्तोकत्वेन तेजस्कायिका अपि स्तोका, अल्पपाकारम्भसंभवात् । ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशि तेजस्कायिकाः। स्वस्थाने तु प्रायः समानाः । तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, क्षेत्रस्य संख्येयगुणत्वात् । ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् १०॥३॥अथ वायुकायिकानां साधिकपदद्वयेन अल्पबाहुल्यमाहहवाऊ थोवा पुत्विं तत्तो अहिया य पच्छिमुत्तरयो। दाहिण ११ नारय थोवा पुबुत्तरपच्छिमासु समा॥४॥ दाहिण असंख १२ इह यत्र शुपिरं तत्र वायुर्यत्र च धनं तत्र वाय्वभावः, ततः पूर्वस्यां दिशि प्रभूतं घनमिति सर्वस्तोका वायुकायिकाः त्वया कथिता इति पूर्ववदुक्तिः । ततः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसंभवात् । ततोऽपि उत्तरस्यां दिशि विशेषाधिकाः, भवननरकावासबाहुल्येन शुपिरबाहुल्यात् । ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकावासानां चातिप्रभूतत्वात् ११॥ अथ साधिकपदद्वयेन नारकाणामल्पबहुत्वमाह-"नारय” इति हे देव! नारकाः सर्वस्तोकास्त्वया पूर्वोत्तरपश्चिमादिक्षु कधिताः । कथम् ? पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् बहूनां प्रायः संख्येययोजनविस्तृतत्वाच्च । किंविशिष्टा नारकाः ? समाः स्वस्थाने तुल्याः। तथा तेभ्यो दक्षिणस्यां दिशि असंख्येयगुणाः, पुष्पावकीर्णनरकावासानां तत्र बाहुल्यात् तेषां च प्रायोऽसंख्येययोजनविस्तृतत्वात् कृष्णपाक्षिद्र काणां तस्यां दिशि प्राचुर्येणोत्पादाच्च । तथाहि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाश्च । तेषां लक्षणमिदं किंचिदूनपुद्गलपरावर्तार्धमानं संसारस्ते शुक्लपाक्षिकाः । अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः। उक्तं च-"जेसिम C-SCHEMILM4

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28