Book Title: Alpbahutva Garbhitam Mahavir Stavanam Author(s): Samaysundar Gani Publisher: Atmanand Jain Sabha View full book textPage 7
________________ यतस्तत्र चन्द्रसूर्यद्वीपा न विद्यन्ते, तदभावात्तत्र उदकं प्रभूतं, तत्प्राभूत्याच्च वनस्पतिकायिका अपि प्रभूता इति विशेपांधिकाः । एवमिदमधिकपदमग्रेऽपि योज्यम् । तेभ्योऽप्युदीच्यां दिशि सामान्यजीवा विशेषाधिकाः । किं कारणं ? इति चेदुच्यते, उदीच्यां हि दिशि संख्येययोजनेषु द्वीपेषु मध्ये कस्मिंश्चिद्वीपे आयामविष्कम्भाभ्यां संख्येययोजनकोटीकोटीप्रमाणं मानसं नाम सरः समस्ति ततो दक्षिणदिगपक्षेया अस्यां प्रभूतमुदकम्, उदकवाहुल्याच्च प्रभूता वनस्पतयः, । प्रभूता द्वीन्द्रियाः शंखादयः । प्रभूतास्तटलग्नशंखादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः । प्रभूताः पद्मादिषु चतुरिन्द्रिया भ्रमरादयः । प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति विशेषाधिकाः । इति सामान्यजीवानां दिगनुपातेनाल्पबहुत्वमुक्तम् । एवं पश्चिमादिदिगनुपातेनावादिपङ्कस्य ज्ञेयम् । तथाहि - सर्वस्तोका अष्कायिकाः पश्चिमायां दिशि गौतमद्वीपस्थाने तेषाम- । भावात् । तेभ्योऽष्कायिकाः पूर्वस्यां दिशि विशेषाधिकाः, तत्र गौतमद्वीपाभावात् । तेभ्योऽपि विशेषाधिका अष्कायिका दक्षिणस्यां दिशि चन्द्रसूर्यद्वीपाभावात् । तेभ्यो विशेषाधिका अष्कायिका उत्तरस्यां दिशि, तत्र मानससरः सद्भावात् । तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः । प्रभूताः शंखादयो द्वीन्द्रियाः । प्रभूताः पिण्डीभूताः सेवालाद्याश्रिताः कुन्थ्यादयस्त्रीन्द्रियाः । प्रभूताः पद्माद्याश्रिता भ्रमरादयश्चतुरिन्द्रियाः । प्रभूता मत्स्यादयः पश्चेन्द्रियाः । इति हेतोः " वण" इति वनस्पतिकायिकाः १ । “विगल" इति विकला द्वित्रिचतुरिन्द्रियाः ४ तिर्यक्पञ्चेन्द्रि याश्च ५ । एते पञ्चापि जीवाः सर्वस्तोकाः पश्चिमायां दिशि । ततः पूर्वस्यां दिशि विशेषाधिकाः । ततो दक्षिणस्यां दिशि विशेषाधिकाः । ततोऽपि उत्तरस्यां दिशि विशेषाधिकाः । इति अष्कायिकवद्भावनीयाः । इति द्वितीयगाथार्थः ॥ २ ॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28