Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
277
गुणप्रकरणम्
अथ गुणा निरूप्यन्ते ननु काव्यशोभायाः कर्तारो धर्माः गुणाः इति वामनरुद्रटौ ॥
रसोऽङ्गिसमवेतैर्येधमरुत्कर्षमभुते। . शौर्यादिभिर्यथैवात्मा ते गुणाः कथिता बुधैः॥ इति साहित्यचिन्तामणिकारः।
अङ्गिनि रसे स्थिता ये विभ्रत्युत्कर्षहेतुतां सततम् । आत्मनि शौर्यादय इव ते नामैते गुणाः कथिताः॥ इत्येकावलीकारः॥ ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ॥ इति 'काव्यप्रकाशिकाकारः॥
काव्योत्कर्षहेतुर्गुण इत्यन्यैर्वण्यन्ते। तत्र नायन्तलक्षणे युक्ते। भदोषौ सगुणौ सालङ्कारौ काव्यमिति उक्तः काव्यस्वरूपस्य गुणघटितत्वात् गुणस्वरूपस्य च काव्यघटितत्वादन्योन्याश्रयप्रसङ्गात्। किञ्च मलद्वारे कविवर्ण्यगुणादिषु अतिव्याप्तिः। तेषामपि काव्योत्कर्षहेतुत्वात् । किञ्च गुणमेलके अतिव्याप्ति को वारयेत् ! 'तस्य ..... तद्वेतुत्वात्। न
1 काव्यप्रकाशकारः-त ५ मध्ये त्रुटितः

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354