Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
292
अलङ्कारराघवे
ननु गुणानामन्ताधर्मत्वमेव युक्तम् । न हि बहिरङ्गरसधर्मत्वम् । अन्नावहिरनन्यायादिति चेत् . शब्दस्यापि रसप्रधानत्वेन रसप्रतीत्युप. युक्ततया शेषीभूतरसधर्मत्वमेव युक्तम् । मुख्य जघन्यन्यायात् तस्य च अन्तरङ्गवहिरङ्गन्यायबाधकत्वात् । एतेन सङ्घटनाधर्मत्वेन च गुणालद्धाराण व्यक्तं स्थानमित्यलङ्कारसर्वस्वकारवचनं निरस्तम् । तस्मान्निरूपिता गुणाः ।।
'इति चरुकुरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन "तिरुमलयज्वप्रियसोदरेण पण्डितसार्वभौमेन विरचिते अलङ्कारराघवे
गुणप्रकरणं सम्पूणम् ॥
रामचन्द्रगुणरत्नवर्णनाशोभिकाव्यगुणसन्निरूपणम् । विश्रुतं हृदि मुदं परां [*शुभा] कस्य नात्र वितनोति 'सन्ततम् ॥
प्रथमभागः समाप्तः ॥ श्री रामचन्द्रः प्रीयताम् ॥
1 चेन्न-त ' व्यक्तमित्यलकार-म 3 .तस्मात्सुनिरूपिता गुणाः-त * इतिश्रीचरकुरि' तिरुमलयज्वसोदरेण-त ' पण्डितसार्वभौमेन-इति पदं 'त' प्रतौ नास्ति ' पद्यमिदं 'त' प्रतौ दृश्यते नान्यत्र ।। * शुभाम् इति पदं मूलमातृकायां नास्ति तदत्र संयोजितम् ।

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354