Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
सुबोधिनी टीका. सू. ९२ सूर्याभदेवस्य कार्यक्रमवर्णनम् निवास्य पुष्पारोहणं माल्यारोहण गन्धारोहणं चूर्णारोहण वर्गारोहणं वस्त्रारोहणम् आभरणारोहणं च करोति । कृत्वा-आसक्तावसत्तविपुलवृत्तप्रवलम्बितमाल्यदामकलापम्-तत्र आसक्त भूमिलग्नः अवसक्तः=उपरिलग्नश्च वृत्तः= वर्तुलः प्रलम्बमानः प्रलम्बितो माल्यदामकलापो यत्र तद्यथा स्यात्तथा जिनप्रतिमाः करोति, कृत्वा कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन-कचग्रहःकचानां=केशानां ग्रहणं कचग्रहः तद्वद् गृहीतं तथा-करतलाद् विप्रमुक्तत्यक्तं सत् प्रभ्रष्टम्-विकीर्णं तेन, “विप्रमुक्त' शब्दस्यार्षत्वात्परनिपातः, एवंविधेन दशार्द्धवर्णेन पञ्चवर्णेन कुसुमेन=पुष्पेण मुक्तपुष्पपुओपचारकलितंमुक्तानांमुत्कलितानाम्-अग्रथितानां पुष्पाणां यः पुनःसमूहः, तत्कृतो य उपचारः, तेन कलितं युक्तं यथा स्थात्तथा करोति, कृत्वा जिनप्रतिमानां पुरतः अग्रे अच्छेः शुभैःश्लक्ष्णैः चिक्कणैः रजतमयैः-रूप्यमयैः अच्छरसातन्दुलैः-अच्छरसा-शुद्धभूमिः, तत्रोत्पन्नस्तन्दुलैः अष्टाष्टमङ्गलानि आलिखति-विन्यस्यति. तद्यथा स्वस्तिकं यावद् दर्पणम् तदनन्तरं खलु चन्द्रप्रभवज्र वैडूर्यविमलदण्डम्-चन्द्रप्रभं वज्रं वैडूर्य च रत्नानि, तन्मयो विमलो-निर्मलो दण्डो यस्याः सा तथा ताम् तथा-काश्चनमणिरत्नभक्तिचित्रांकाञ्चनस्य मणीनां रत्नानां च या मक्तिः-रचनाविशेषः तथा चित्रां-विविधरूपयुक्तां तथा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपप्रसरद्गन्धोत्तमानुविद्धाम् – कालागुरु:-कृष्णागुरुः प्रवरकुन्दुरुष्क-चीडाभिधानगन्धद्रव्यविशेषः, तुरुष्कं-सिहलकाभिधानगन्धद्रव्यविशेषः, धूपः अनेकसुगन्धिद्रव्यसंयोगजनितः, एतेषां यः प्रसरन् उत्तमो गन्धस्तेन अनुविद्धां-युक्तां च धूपबर्ति-धूपवर्तिकां विनिमुंश्चन्तं-परित्यजन्तं वैडूर्यमयं कडुच्छुकं प्रगृह्य-प्रकर्षण गृहीत्वा प्रयत्नेन-प्रयत्नपूर्वकं जिनवरेभ्यः-कामदेवप्रतिमाभ्यो धूपं दत्त्वा, अष्टशतविशुद्धग्रन्थयुक्तःअष्टशतसंख्यका ये विशुद्धाः-काव्यदोषरहिता ग्रन्थाः-श्लोकरुपास्तैर्युक्तास्तैः, तथा अर्थयुक्तैः- अपूर्थियुक्तैः अपुनरुक्तैः-पुनरुक्तिदोषरहितैः महावृत्तैःमहान्ति वृत्तानि-दण्डकादिरूपाणि येषु तानि तथोक्तैः स्तुतिकाव्यैः-संस्तौति, संस्तुत्य सप्ताष्टपदानि प्रत्यवष्वष्कते-पश्चाद्गच्छति, प्रत्यववष्क्य वामं जानुं कर्षति-पश्चान्नयति, कृष्ट्रा-पञ्चान्नीत्वा दक्षिणं जानें धरणितले निहत्य-स्थापयित्वा विकृत्वः-वारत्रयं मूर्धानं-मस्तकं धरणितले निपातयति-अवनमयति निपात्य-अवनमय्य मूर्धानम् ईषत् प्रत्युन्नमयति-ऊर्वीकरोति, प्रत्युन्नमय्य करतलपरिगृहीतं शिर आवर्त मस्तके अञ्जलिं कृत्वा एवं-वक्ष्यमाणं वचनम् अवादीत्-उक्तवान् (१) ॥ सू. ९२ ॥
શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
Loading... Page Navigation 1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718