SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ९२ सूर्याभदेवस्य कार्यक्रमवर्णनम् निवास्य पुष्पारोहणं माल्यारोहण गन्धारोहणं चूर्णारोहण वर्गारोहणं वस्त्रारोहणम् आभरणारोहणं च करोति । कृत्वा-आसक्तावसत्तविपुलवृत्तप्रवलम्बितमाल्यदामकलापम्-तत्र आसक्त भूमिलग्नः अवसक्तः=उपरिलग्नश्च वृत्तः= वर्तुलः प्रलम्बमानः प्रलम्बितो माल्यदामकलापो यत्र तद्यथा स्यात्तथा जिनप्रतिमाः करोति, कृत्वा कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन-कचग्रहःकचानां=केशानां ग्रहणं कचग्रहः तद्वद् गृहीतं तथा-करतलाद् विप्रमुक्तत्यक्तं सत् प्रभ्रष्टम्-विकीर्णं तेन, “विप्रमुक्त' शब्दस्यार्षत्वात्परनिपातः, एवंविधेन दशार्द्धवर्णेन पञ्चवर्णेन कुसुमेन=पुष्पेण मुक्तपुष्पपुओपचारकलितंमुक्तानांमुत्कलितानाम्-अग्रथितानां पुष्पाणां यः पुनःसमूहः, तत्कृतो य उपचारः, तेन कलितं युक्तं यथा स्थात्तथा करोति, कृत्वा जिनप्रतिमानां पुरतः अग्रे अच्छेः शुभैःश्लक्ष्णैः चिक्कणैः रजतमयैः-रूप्यमयैः अच्छरसातन्दुलैः-अच्छरसा-शुद्धभूमिः, तत्रोत्पन्नस्तन्दुलैः अष्टाष्टमङ्गलानि आलिखति-विन्यस्यति. तद्यथा स्वस्तिकं यावद् दर्पणम् तदनन्तरं खलु चन्द्रप्रभवज्र वैडूर्यविमलदण्डम्-चन्द्रप्रभं वज्रं वैडूर्य च रत्नानि, तन्मयो विमलो-निर्मलो दण्डो यस्याः सा तथा ताम् तथा-काश्चनमणिरत्नभक्तिचित्रांकाञ्चनस्य मणीनां रत्नानां च या मक्तिः-रचनाविशेषः तथा चित्रां-विविधरूपयुक्तां तथा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपप्रसरद्गन्धोत्तमानुविद्धाम् – कालागुरु:-कृष्णागुरुः प्रवरकुन्दुरुष्क-चीडाभिधानगन्धद्रव्यविशेषः, तुरुष्कं-सिहलकाभिधानगन्धद्रव्यविशेषः, धूपः अनेकसुगन्धिद्रव्यसंयोगजनितः, एतेषां यः प्रसरन् उत्तमो गन्धस्तेन अनुविद्धां-युक्तां च धूपबर्ति-धूपवर्तिकां विनिमुंश्चन्तं-परित्यजन्तं वैडूर्यमयं कडुच्छुकं प्रगृह्य-प्रकर्षण गृहीत्वा प्रयत्नेन-प्रयत्नपूर्वकं जिनवरेभ्यः-कामदेवप्रतिमाभ्यो धूपं दत्त्वा, अष्टशतविशुद्धग्रन्थयुक्तःअष्टशतसंख्यका ये विशुद्धाः-काव्यदोषरहिता ग्रन्थाः-श्लोकरुपास्तैर्युक्तास्तैः, तथा अर्थयुक्तैः- अपूर्थियुक्तैः अपुनरुक्तैः-पुनरुक्तिदोषरहितैः महावृत्तैःमहान्ति वृत्तानि-दण्डकादिरूपाणि येषु तानि तथोक्तैः स्तुतिकाव्यैः-संस्तौति, संस्तुत्य सप्ताष्टपदानि प्रत्यवष्वष्कते-पश्चाद्गच्छति, प्रत्यववष्क्य वामं जानुं कर्षति-पश्चान्नयति, कृष्ट्रा-पञ्चान्नीत्वा दक्षिणं जानें धरणितले निहत्य-स्थापयित्वा विकृत्वः-वारत्रयं मूर्धानं-मस्तकं धरणितले निपातयति-अवनमयति निपात्य-अवनमय्य मूर्धानम् ईषत् प्रत्युन्नमयति-ऊर्वीकरोति, प्रत्युन्नमय्य करतलपरिगृहीतं शिर आवर्त मस्तके अञ्जलिं कृत्वा एवं-वक्ष्यमाणं वचनम् अवादीत्-उक्तवान् (१) ॥ सू. ९२ ॥ શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy