Book Title: Adhyatmopnishat Prakaranam Savrutti Author(s): Sheelchandrasuri, Trailokyamandanvijay Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ प्रवेशिका सर्वत्र सर्वस्य सदा प्रवृत्ति-दुःखस्य नाशाय सुखस्य हेतोः । तथापि दुःखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम् ॥ .. सर्वोऽपि जीवलोको दुःखोद्वेगात् क्लेशातिहेतून् परिजिहीर्षुः सुखेप्सया चाऽऽनन्दनिमित्तान्युपादित्सुश्च सर्वासु क्रियासु प्रवर्तते । अर्थाद् दुःखमुक्तिः सुखप्राप्तिश्च जीवमात्रस्य निश्चितं शाश्वतं ध्येयम् । परं तस्य ध्येयस्य पूर्तिः प्रयत्नातिशयेनाऽपि न सम्भाव्यते इत्यस्माकमनिराकरणीयोऽनुभवः । दुःखाद् मुक्तिर्भवति चेदपि सा तात्कालिक्येव, न तु शाश्वतिकी । सुखं प्राप्यते चेदपि तत् स्थिरत्वं न भजते एव । किमर्थमेवं भवति ? कथं वाऽस्माकं सर्वोऽपि प्रयत्नो विफलीभवति ? कुतो वयं सर्वदा सर्वत्र सर्वथा दुःखात् सन्त्रस्ता एव भवामः ? किंकारणं वयं सुखाय बद्धस्पृहा अपि ततो वञ्चिता एवं तिष्ठाम: ? ___एतादृशानां गणनातीतानां सर्वेषामपि प्रश्नानामेकमेवोत्तरमाहुर्मनीषिणः "सर्वं परवशं दुःखं सर्वमात्मवशं सुख"मिति । इदमत्र तात्पर्यम् - सुखं हि द्विविधम् - विषद्धिसंयोगसमुत्थसुखं सहजात्मसुखं चेति । तत्र यत् सहजं सुखं तत् प्रकर्षकाष्ठामुपगतं सत् शाश्वतिकत्वादिवैशिष्ट्यभाग् भवति । तथाहि. - शाश्वतिकं तत् कदाप्यप्रतिपातात्, आत्यन्तिकं तद् दुःखलेशासंस्पृष्टत्वात्, अनुत्तरं तत् सर्वातिशायित्वात्, अनाबाधं तद् भूतोपमर्दनजन्यत्वरूपातङ्कविरहितत्वात्, केवलं तत् सर्वद्वन्द्वाप्तीतत्वात्, स्वाधीनं तत् परानपेक्षत्वेनाऽऽत्मतादात्म्याविर्भावात्, सहजं च तदनादिकालादात्मन्येव संस्थितत्वादनागन्तुकत्वादप्राप्यमाणत्वाच्च । तच्चैतत् कर्मसंसर्गरूपप्रतिबन्धोपरागविगमात् चैतन्यवीर्यप्रशमादिगुणाविर्भावेन ज्ञानादिस्वतत्त्वावस्थानेनाऽभिव्यज्यते । यद्यप्येतत् सकलमलहासरूपनिःश्रेयसावाप्तेः पूर्वमात्यन्तिकत्वादिवैशिष्ट्योपेतं न भवति, तथाप्यात्मगुणाविर्भावपरिपाट्या क्रमशो वर्धमाने तन्नाम प्रकटीभवति तस्मिन्, यस्मिन् कस्मिश्चिदपि स्तरे स्वाधीनत्वादिवैशिष्टयमक्षुण्णमेव तिष्ठति । इदमेवाऽस्य वैषयिकसुखापेक्षया महनीयतरत्वम् । विषद्धिसंयोगसमुत्थं सुखं तु सहजसुखतः सर्वथा विपरीतं भवति । पूर्वं यद् वैशिष्ट्यं दर्शितं सहजसुखस्य, तत् सर्वमप्यत्र विपरिणमते । अशाश्वतिकं तत्, अनात्यन्तिकं तत्, यां कामपि काष्ठामाप्तमपि सहजसुखलेशापेक्षयाऽपि निकृष्टमेव तत्, भूतपीडाजन्यत्वाविनाभावित्वाद् बाधाजनकं तत्, द्वन्द्वग्रस्तं तत्, पौद्गलिकसंयोगवियोगमुखप्रेक्षित्वात् पराधीनं च तत् । किमधिकेन ? वैषयिकसुखं परमार्थदृष्ट्या निरीक्ष्यते चेत् त्रैकालिकदुःखानुविद्धं भवति । यतस्तत्साधनोपायार्जने आयासजन्यक्लेशः, प्राप्ते सति तत्संरक्षणचिन्ता, अचिरस्थायित्वाद् विनाशे सति वियोगपीडा च । एवं च तात्त्विकरीत्या चिन्तयामश्चेद् वैषयिकसुखं नाम दुःखापरपर्याय एव । ___न केवलं तावत्, विषयसंयोगसमुत्थं सुखमन्ततोगत्वा दुःखरूपेणैव विपरिणमते । यतो मोहमूढा जीवा शरीरेन्द्रियादीनामानुकूल्यं प्रातिकूल्यं च प्रधानीकृत्य कल्पनानुसारं तत्तदिष्टसंयोगेऽनिष्टविप्रयोगे चPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 118