Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम
[५० ]
उपांगसूत्र-१ (मूलं+वृत्तिः)
मूलं [४०]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
औपपा
तिकम्
॥१०१॥
“औपपातिक”
अंबड-परिव्राजकस्य कथा
-
*
नेन - आर्तादिना आचरित आसेवितो यः अपध्यानस्य वा यदाचरितम् आसेवनं सोऽनर्वदण्ड इति, 'पमादायरिए' ति प्रमादेन घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्डः प्रमादाचरितः प्रमादाचरितं वेति 'हिंसप्पयाणे' त्ति हिंस्रस्य - खङ्गादेः प्रदानम् - अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे 'ति पापकर्मोपदेशः कृष्याद्युपदेशः प्रयोजनं विनेति, 'सावज्जेत्तिकद्दु'त्ति यदिदं जलस्य परिमाणकरणं तज्जलं सावद्यमिति कृत्वा, सावद्यमपि कथमित्याह- 'जीवत्तिकडु'ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूतं गृह्णातीत्यत आह- सावद्यमिति कृत्वा एतदेव कुत इत्याह-जीवा इतिकृत्या, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः । 'अण्णउत्थिए वत्ति अन्ययूथिका - अर्हत्सापेक्षया अन्ये शाक्यादयः 'चेइयाई'ति अर्हचैत्यानि - जिनप्रतिमा इत्यर्थः 'णण्णत्थ अरहंतेहि व'सि न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्रार्द्धन्यः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारकः अतोऽन्ययूथिक देवतावन्दनादिनिषेधे अर्हतामपि वन्दनादिनिषेधो मा भूदिति कृत्वा णण्णरथेत्याद्यधीतं, | 'उच्चावहिं'ति उच्चावचैः- उत्कृष्टानुत्कृष्टैः । 'आउक्खणं ति आयुःकर्मणो दलिकनिर्जरणेन 'भवक्खएणं'ति देवभवनि| बन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठिइक्खएणं' ति आयुः कर्मणस्तदन्येषां च केषाञ्चित् स्थितेर्विदलनेनेति 'अनंतरं चयं चत्त'त्ति देवभवसम्बन्धिनं चयं शरीरं त्यक्त्वा विमुच्य अथवा 'चयं चइत्त'त्ति च्यवनं चित्वा कृत्वेत्यर्थः, 'अड्डाई 'ति परिपूर्णानि 'दिसाई'ति दृप्तानि - दर्पवन्ति 'वित्ताई'ति वित्तानि - व्याख्यातानि शेषपदानि कूणिकवर्णकवद् | व्याख्येयानि, 'तपगारेसु कुलेसु'ति इह कचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्त्वतया, पुरुषतयेत्यर्थः,
For Penal Use Only
~205~
अम्मडा०
सू० ४०
॥ १०१ ॥
www.rary org
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244