Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [४३] + गाथा: ||१-२२|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[४३]
गाथा: ||१-२२||
MSRDSTORSCOPERCENGLk
न्ति निष्ठितार्था भवन्ति ॥ २ ॥ किञ्च-ज संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्रपूरणादिति, 'तहि' ति सिद्धिक्षेत्रे 'तस्स'त्ति सिद्धस्येति ॥ ३॥ तथा चाह-'दीहं वागाहा, दीर्घ वा-पञ्चधनुःशतमानं इस्खं वा-हस्तद्वयमानं, वाशब्दान्मध्यमवा, यच्चरमभवे भवेत्संस्थानं 'ततः तस्मात् संस्थानात् त्रिभागहीना त्रिभागेन शुषिरपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति ॥ ४॥ अथावगाहनामेवोत्कृष्टादिभेदत आह-तिणि सये'त्यादि, इयं च पञ्चधनु शतमानानां 'चत्तारि येत्यादि तु सप्तहस्तानाम् 'एगा ये' त्यादि द्विहस्तमानानामिति । इयं च त्रिविधाऽप्यूर्वमानमाश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्ध्यतामन्यथाऽपि
स्यादिति । आक्षेपपरिहारी पुनरेवमत्र ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानः प्रतीत एव, तदायोऽपि मरु। देवी तत्प्रमाणैव, उच्चत्तं चेव कुलगरेहि सममिति वचनात्, अतस्तदवगाहना उत्कृष्टावगहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः, अत्रोच्यते, यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो। लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत् , वृद्धकाले बा सङ्कोचात् पञ्चधनु शतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गलाधिकहस्तप्रमाणा भवतीति ?, अत्रोच्यते, | सप्तहस्तोच्छितेषु सिद्धिरिति तीर्थकरापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये
१ उच्चत्वमेव कुलकरैः समं.
दीप अनुक्रम
[५५-७७]]
कल
SARERaunintenarana
सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार:
~ 236~
Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244