Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४१]
दीप अनुक्रम
'असम्भावुब्भावणाहिति असद्भावानाम्-अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असझावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वे-वस्तुविपर्यासे मिध्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:-चित्तावष्टम्भा | मिथ्यात्वाभिनिवेशास्तैः 'बुग्गाहेमाण'त्ति व्युहाह्यमाणा:-कुग्रहे योजयन्तः 'वुप्पाएमाण'त्ति व्युत्पादयमानाः-असद्भावो-15 दावनासु समर्थीकुर्वन्त इत्यर्थः, 'अणालोइयअपडिकंत'त्ति गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्वेत्यर्थः, एतेषां च विशिष्टश्रामण्यजन्यं देवत्वं प्रत्यनीकताजन्यं च किल्विषिकत्वं, ते हि चण्डालपाया एव देवमध्ये भवन्तीति १५ ॥ 'सण्णीपुबजाईसरणे'त्ति संझिनो सतां या पूर्वजातिः-प्राक्तनो भवस्तस्था यत्स्मरणं तत्तथा १५ ।। आजीविकागोशालकमतानुवर्तिनः 'दुपरंतरिय'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिकम्य पुनर्भिक्षा गृहन्ति * न निरन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निर्वचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च उपलबेंटिय'त्ति उत्पल वृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति ! | ते उत्पलवृन्तिकाः 'घरसमुदाणिय'त्ति गृहसमुदान-प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विजुयंतरि
यत्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षा नाटन्तीति भावार्थः, 'उ-10 ४ डियासमण'त्ति उष्ट्रिका-महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युएिकाश्रमणाः, एषां च पदामा | मुत्प्रेक्षया व्याख्या कृतेति १७ । 'अत्तुक्कोसिय'त्ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'परपरिवाइय'त्ति परेषां परि वादो-निन्दाऽस्ति येषां ते परपरिवादिकाः भूइकम्मिय'त्ति भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं तदस्ति येषां ते भूतिक
[५१]
~ 214~
Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244