Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
प्रत
सूत्रांक
[४३]
दीप अनुक्रम
[ ५५ ]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [४३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
सिध्यतीति न परतः । 'ते णं तत्थ सिद्धा भवंती 'ति प्राक्तनवचनाद् यद्यपि लोकार्थ सिद्धानां स्थानमित्यवसीयते तथापि मुग्धविनेयस्य कल्पित विविधलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह-'अत्थि णमित्यादि व्यक्तं, नवरं यदिदं रत्नप्रभा (या) अधस्तदेव लोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरं नायमर्थः समर्थ इति, एवं सर्वत्र, 'से कहिं खाइ णं भंते!"त्ति इत्यत्र सेत्ति ततः कहिंति-क देशे खाइ णंति- देशभाषया वाक्यालङ्कारे 'बहुसमे' त्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अवाहाए'त्ति अबाधया - अन्तरेण 'ईसिंप भारति ईषद् - अल्पो न रलप्रभादिपृथिव्या इव महान् प्राग्भारो - महत्त्वं यस्याः सा ईषत्प्राग्भारा । नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वा ईषत् - अल्पा पृथिव्यन्तरापेक्षया इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'लोयग्गपडिबुज्झणा इ वत्ति लोकाप्रमिति प्रतिबुध्यते-अव सीयते या लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'सवपाणभूयजीवसत्तसुहावह 'त्ति इह प्राणा-द्वीन्द्रियादयः भूता-वनस्पतयः जीवाः पश्वेन्द्रियाः पृथिव्यादयस्तु सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति, 'सेय'त्ति श्वेता, एतदेवाह - 'आयं सतलबिमल सोडियमुणालद गरयनुसार गोक्खीरहारवण्ण'त्ति व्यक्तमेव, नवरम् आदर्शतल दर्पणतलं कचिच्छङ्गतलमिति पाठः, आदर्शतल मिव बिमला या सा तथा, 'सोहिय'त्ति कुसुमविशेषः, 'सवज्जुणसुवण्णमईति अर्जुन सुवर्ण-वेतकाञ्चनं अच्छा आकाशस्फटिकमिव 'सह'त्ति लक्ष्णपरमाणुस्कन्धनिष्पन्ना शुक्ष्णतन्तु निष्पन्नपटवत् 'लण्ड'त्ति मसृणा घुण्टितपटवत्, 'घट्ट'त्ति घृष्ठेव घृष्टा खरशानया पाषाणप्रतिमावत्, 'मह' चि मृष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'णीरय'त्ति नीरजाः- रजोरहिता
सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक : अधिकार:
For Parts Only
~ 232~
Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244