Book Title: Vitragstav
Author(s): Hemchandracharya, Bhagvandas Mehta
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
મહાદેવસ્તોત્ર મૂળ
३७७
वसुदेवसुतो विष्णु, माता च देवकी स्मृता । रोहिणी जन्मनक्षत्रमेकमूतिः कथं मवेत् ? ।। २४ ।। पेढालस्य सुतो रुद्रो, माता च सत्यकी स्मृता । मूलं च जन्मनक्षत्रमेकमूतिः कथं भवेत् ? ।। २५ ।। रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णों महेश्वरः । कृष्णवर्णों भवेद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ २६ ॥ अक्षसूत्री भवेद् ब्रह्मा, द्वितीयः शूलधारकः । तृतीयः शंखचक्रांक एकमूतिः कथं भवेत् ? ॥ २७ ॥ चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रोऽथ महेश्वरः । चतुर्भुजो मवेद् विष्णुरेकमूतिः कथं भवेत् ? ।। २८ ।। मथुरायां जातो ब्रह्मा, राजगृहे महेश्वरः । द्वारामत्यामभूद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ २६ ॥ हंसयानो भवेद् ब्रह्मा, वृषयानो महेश्वरः । गरुडयानो भवेद् विष्णुरेकमूतिः कथं भवेत् ? ॥ ३० ॥ पद्महस्तो भवेद् ब्रह्मा, शूलपाणिमहेश्वरः । चक्रपाणिर्भवेद् विष्णुरेकमूत्ति कथं भवेत् ? ॥ ३१ ॥ कृते जातो भवेद् ब्रह्मा, त्रेतायां च महेश्वरः । द्वापरे जनितो विष्णुरेकमूत्तिः कथं भवेत् ? ॥ ३२ ॥ ज्ञानं विष्णुस्सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वं तु शिधं प्रोक्तमहन्मूत्तिस्त्रयात्मिका ॥३३ ॥ क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । इत्येष्टी भगवति, वीतरागे गुणा मताः ॥ ३४ ॥ क्षितिरित्थुच्यते क्षांतिर्जलं या च प्रसन्नता । निःसंगता भवेद्वायु हुँताशो योग उच्यते ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446