Book Title: Vitragstav
Author(s): Hemchandracharya, Bhagvandas Mehta
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
३७६
પરિશિષ્ટ
महाक्रोधो महामानो, महामाया महामदः ।। महालोभो हतो येन, महादेवः स उच्यते ॥११॥ महानन्दो दया यस्य, महाज्ञानी महातपाः । महायोगी महामौनी, महादेवः स उच्यते ॥१२॥ महावीर्यं महाधैर्य, महाशीलं महागुणः । महामंजुक्षमा यस्य, महादेवः स उच्यते ॥ १३ ॥ स्वयंभूतं यतो ज्ञानं, लोकालोकप्रकाशकम् । अनन्तवीर्यचारित्रं, स्वयंभूः सोऽभिधीयते ॥ १४ ॥ शिवो यस्माज्जिनः प्रोक्तः, शंकरश्च प्रकीर्तितः । कायोत्सर्गी च पर्यङ्की, स्त्रीशस्त्रादिविजितः ॥१५॥ साकारोऽपि ह्यनाकारो, मूर्तामूर्तस्तथैव च । परमात्मा च बाह्यात्मा, अन्तरात्मा तथैव च ॥ १६ ॥ दर्शनज्ञानयोगेन, परमात्माऽयमव्ययः । पराक्षान्तिरहिंसा च, परमात्मा स उच्यते ॥ १७ ॥ परमात्मा सिद्धिसंप्राप्ती, बाह्यात्मा तु भवांतरे । अन्तरात्मा भवेद्देह इत्येषस्त्रिविधः शिवः ॥१८॥ सकलो दोषसंपूर्णों, निष्कलो दोषवर्जितः । पंचदेहविनिर्मुक्तः, संप्राप्तः परमं पदम् ॥ १६ ॥ एकमूर्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः । तान्येव पुनरुक्तानि, ज्ञान-चारित्र-दर्शनात् ॥ २० ॥ एकमूर्तिस्त्रयो भागा, ब्रह्मविष्णुमहेश्वराः । परस्परं विभिन्नानामेकमूर्तिः कथं भवेत् ? ॥ २१ ॥ कार्य विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्यका' णसंपन्ना, एकत्तिः कथं भवेत् ? ॥ २२ ॥ प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता । अभिजिज्जन्मनक्षत्रमेकमूतिः कथं भवेत् ? ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446