Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
जानाति यत् तेन यो गर्तः कृतः तन्निष्ठप्राकाशोऽपि तेनैवकृतः ।
यद्यस्य तात्पर्यं परिवर्तनशीलत्वं तहि तद्यप्यसङ्गतं स्यात् यतो हि ईश्वरस्य परिवर्तनशीलत्वं विकारित्वं वा कैरपि न तक्ते । न च कल्पयितुं शक्यते । तस्यापि निर्माता [ कर्तेति ] स्वीकारेऽनन्तकर्तृत्वं प्रसङ्गः स्यात् । एवं चेदीश्वरः कर्त्ता तदा तु तस्यापि विकारित्वं परिवर्तनशीलत्वं प्रतिपद्येत । यतो हि तस्य कार्यमपि परिवर्तनशीलम् । सोऽपि निर्मितौ लीनः ।
।
एतद्रिक्तं जानीमो वयं यत् कदाचिद् घटितमघटितं वा भवेत् तदेव कार्यम्, किन्तु जगत्तु स्वरूपे तिष्ठति । तर्क्यते तावद् यथा - लतावृक्षादिकार्यं तदा तथाकथित ईश्वरोऽपि कार्यं भविष्यति । यतो हि तस्येच्छा विचाराः विभिन्नसमयेषु विभिन्नरूपेण कार्याणि कुर्वन्ति तदा ते ईश्वरे निहिताः । तस्मात् कार्यं जगत् । नन्विच्छा विचाराणामाधारेण कार्यं चेदणुरपि कार्यं स्यात् । यतो हि तापेन तेषां वर्णेषु परिवर्तनानि भवन्ति । यदि तुष्यति दुर्जनन्यायेन स्वीक्रियते यज्जगत्कार्यम् । प्रत्येकस्य कार्यस्यैकं कारणं स्वीकरणीयमनिवार्यम् । एवमपि नेदमावश्यकं यद् बुद्धिमान् ईश्वरः । चेतनः कर्त्तेति ।
विश्वकर्तृत्व-मीमांसा -४

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116