Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
अनेकस्वोकृतेषु विवादसम्भवश्चेद्, तदा तु भवत् प्रतिपादितेश्वरगुणेषु न्यूनता प्रतीतिः । विवादपरानस्य ईश्वरस्य अविश्वसनीयत्वात् ।।
अनेन प्रकारेण ईश्वरकर्तृत्वसिद्धेः भवतां सकला अपि प्रयासा विफली भविष्यन्तीति कृत्वेश्वरसत्तैव नास्तीति स्वीकार्यम् ।
परम पूज्य कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रवरविरचित 'अन्ययोगव्यवच्छेदद्वात्रिंशिका' स्तवने कथितः श्लोकोऽयमपि तदर्थपरः सम्यग् अनुशीलनीय:कर्तास्ति कश्चिद् जगतः स चैकः ,
स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युः
स्तेषां न येषामनुशासकस्त्वम् । 'जगतः प्रत्यक्षादिप्रमारणोपलक्ष्यमान चराचरस्य विश्वत्रयस्य कश्चिद् अनिर्वचनीयस्वरूपः पुरुषविशेषः, कर्ता-स्रष्टा, अस्ति-विद्यते। ते हि इत्थं प्रमाणयन्ति । उर्वी-पर्वत-तर्वादिकं सर्वं बुद्धिमत्कर्तृ कम् । यद् यत् कार्य तत् तत् सर्वं बुद्धिमत्कर्तृकम् । यथा-घटः तथा चेदं तस्मात तथेति । व्यतिरेके व्योमादि । यश्च बुद्धि
विश्वकर्तृत्व-मीमांसा-६

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116