SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनेकस्वोकृतेषु विवादसम्भवश्चेद्, तदा तु भवत् प्रतिपादितेश्वरगुणेषु न्यूनता प्रतीतिः । विवादपरानस्य ईश्वरस्य अविश्वसनीयत्वात् ।। अनेन प्रकारेण ईश्वरकर्तृत्वसिद्धेः भवतां सकला अपि प्रयासा विफली भविष्यन्तीति कृत्वेश्वरसत्तैव नास्तीति स्वीकार्यम् । परम पूज्य कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रवरविरचित 'अन्ययोगव्यवच्छेदद्वात्रिंशिका' स्तवने कथितः श्लोकोऽयमपि तदर्थपरः सम्यग् अनुशीलनीय:कर्तास्ति कश्चिद् जगतः स चैकः , स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युः स्तेषां न येषामनुशासकस्त्वम् । 'जगतः प्रत्यक्षादिप्रमारणोपलक्ष्यमान चराचरस्य विश्वत्रयस्य कश्चिद् अनिर्वचनीयस्वरूपः पुरुषविशेषः, कर्ता-स्रष्टा, अस्ति-विद्यते। ते हि इत्थं प्रमाणयन्ति । उर्वी-पर्वत-तर्वादिकं सर्वं बुद्धिमत्कर्तृ कम् । यद् यत् कार्य तत् तत् सर्वं बुद्धिमत्कर्तृकम् । यथा-घटः तथा चेदं तस्मात तथेति । व्यतिरेके व्योमादि । यश्च बुद्धि विश्वकर्तृत्व-मीमांसा-६
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy