SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मांस्तत्कर्ता स भगवान् ईश्वर एकेति । न चायमसिद्धो हेतुः' । यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया अवयवितया वा कार्यत्वं सर्ववादिभिः स्वीकृतमेव । नाप्यनैकान्तिको विरुद्धो' वा। विपक्षादत्यन्त-व्यावतत्वात् । नापि कालात्यापदिष्ट: । प्रत्यक्षानुमानागमाबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात् । नापि प्रकरणसमः तत्प्रतिपन्थि धर्मोत्पादन समर्थप्रत्यनुमानाभावात् । न च वाच्यम् ईश्वरः पृथ्वीपृथ्वीधरादेविधाता न भवति; अशरीरत्वात् निर्वृत्तात्मवत् इति प्रत्यनुमानं तद्बाधकमिति । यतोऽत्र ईश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः ? न तावद् प्रतीतः हेतोराश्रयसिद्धिप्रसङ्गात् । प्रतीतश्चेत्, येन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितस्वतनुर्न प्रतीयते । इत्यतः कथमशरीरत्वम् । तस्मात् निरवद्य एवायं हेतुरिति-। १. अयं साध्यसमशब्देनाभिधीयते साध्याविशिष्टः साध्यत्वात् साध्यसमः । गौतमसूत्रम्, १-२-८] २. अनेकान्तिकः सव्यभिचारः। १-२-५ [गौतमसूत्रम्] ३. सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः । १-२.६ [गौतमसूत्रम्। ४. कालाव्ययापदिष्टः कालातीतः । १-२.६ [गौतमसूत्रम्] ५. यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः । __१-२-७ [गौतमसूत्रम्] विश्वकत्तुं त्व-मीमांसा-१०
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy