________________
ज्ञाने वा किमपि परिवर्तनं न भवति, तर्हि सृष्टेविनाशस्य वा विभिन्नरूपाणि कथं दरीदृश्यते । सृष्टिविनाशावपरिवर्तनीय-बुद्धर्ज्ञानस्य वा परिणामाविति नव भवितुमर्हतः । ज्ञानस्वभाव-परिवर्तनशीलः ।
यदि तेनैव ज्ञानेन तात्पर्य गृह्यते यच्च मानवीयसन्दर्भेषु प्रयुज्यते (तदतिरिक्तमन्यः सन्दर्भः ज्ञानेन न ज्ञायते चेत्) तदा तु परमात्मा, ईश्वरः सर्वज्ञः इति कथं स्वीकतु शक्यते ? तस्य किमपि ज्ञानमस्ति नवेति कथं ज्ञातु शक्यते ? इन्द्रियशून्यत्वात् । इन्द्रियाभावात् प्रत्यक्षज्ञानं न सम्भवति । विना प्रत्यक्षं किमपि अनुमानं न सम्भवति । विश्वरचनावैचित्र्यं व्याख्यातु ईश्वरकर्तृत्व स्वीकार्यमिति चेन्न । पापादनात् सिद्धिस्तदेव स्वीकतु शक्यते यदा किमप्यन्यत् परिकल्पनं युक्त्या सम्भवं न स्यात् । अत्र तु अन्या अपि सम्भावनाः परिकल्पनाः भवितुमर्हन्ति ।
. ईश्वरकत्त त्वस्वीकारं विनापि नैतिकव्यवस्थया कर्मसिद्धान्तेन वा सृष्टिरियं व्याख्यातु पार्यते । यदि भवन्तः एक मीश्वरमामनन्ति तदा तु ईश्वराणां समुदायोऽपि कल्पितु शक्यते । एवं सति बहुषु ईश्वरेषु विसंवादसम्भवत्वं प्रतिपाद्यते चेन्न। यदा पिपीलिकाः, मधुमक्षिकादयः समन्वयेन कार्य सम्पादयितु समर्थाः भवन्ति तदा कथं ईश्वरसमुदाये विसंवादः प्रसज्येत ।
विश्वकर्तृत्व-मीमांसा-८