SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ तदा तु विश्वस्मिन् प्रसन्नतास्तु सुजनतायाश्च प्राधान्य स्यात् । नान्यत् किमपि दुःखादिकं स्यात् । यदि तावद् उच्यते मनुष्याणां दुःखभोक्तृत्वं तेषां पूर्वकृतकर्मघटितम् तदा तु सुखमपि पूर्वकृतकर्म विलसितं स्यात् । पूर्वकृतकर्माणि यानि भाग्यरूपेण नियतिरूपेण वा भवद्भिः स्वीकृतानि तत्प्रेरितो मनुष्यः कुकर्मतत्पर इति चेद् दृष्टः (नियतिः) एव सृष्टिकर्तेति मन्यताम् । यदि ईश्वरेण क्रीडाकौतुकेन जगत्सृष्टिः कृता तर्हि स तु निरुद्देश्यकार्यकारी बालक इव प्रतिपद्येत । सोद्देश्यकृता सृष्टिरिति स्वीकारे एकस्मै दण्डोऽन्यस्मै पुरस्कारः कथं घटते ? एवं तु तस्य पक्षपातित्वं दुषित्वञ्च स्यात् । यदि सृष्टि रचना तस्य स्वभाव एव । तस्मादेव सृष्टि: प्रभवति तदा तु स्वभावादेव सृष्टिः प्रभवत्वस्वीकारे को दोषः ? एषा तु क्लिष्टकल्पनैव यत् केनाऽपि ईश्वरेणोपकरणादि साहाय्यं विनाऽस्य जगतो रचना कृते तु भव-विरुद्धम् । ईश्वरकर्तृत्व स्वीकारेऽपि तद् ईश्वरार्थं प्रयुक्तानि विशेषणानि न सङ्गच्छदन्ते । अनादिरनन्तो नित्य इति । तस्याशरीरित्वात् बुद्धिचैतन्यस्वरूपत्वं घटते। तत् स्वरूपं नानात्मकविश्वपदार्थ-संरचनायां भिन्नं परिवर्तनशीलं स्यात् । यदि तस्य बुद्धौ, चेतनायां विश्वकर्तृत्व-मीमांसा-७
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy