________________
तु तस्य शरीरमपि स्यात्, अशरीरिचेतनकर्तृत्वासम्भवात् । कर्तृत्वसामान्यमेवानुमानमिति चेन्न तस्यापि शरीरापेक्षितत्वात् । अन्यानि क्षित्यकुराणि कार्याणि तेषां कर्तेश्वर इति चेन्न चक्रकदोषत्वात् । भवन्तस्तु तर्केणानेनैनं विषयं साधयितुमभिलषन्ति । सत्यपीश्वरसत्तास्वीकारे कि तावदीश्वरोपस्थितिमात्रेणेव विश्वसंसृष्टिः। एवं चेत् कुम्भकारोपस्थितिरपि विश्वसृष्टि कत्तुं शक्नोतिउभयत्राप्युदासीनोपस्थितिमात्रस्य तुल्यत्वात्। सस्पृहं विश्वसृष्टि करोतीति न युक्तम् शरीरमन्तरेच्छाया असम्भवात् । किं तावदीश्वरो विश्वसंरचनां शरीरक्रियाभिस्तनोत्युतान्याभिः क्रियाभिः ? उभयमप्यसम्भवम् । शरीरमन्तरा क्रियाऽसम्भवात् । तस्य सर्वव्यापकत्व-स्वीकारेणाऽपि सर्वस्रष्ट्रत्वं नैव सिद्धयति शरीराभावात् तर्कानुरोधेन स्वीक्रीयते चेद् शरीरिणोऽपि ईश्वरस्येच्छा क्रियाभ्यां विश्वकर्तृत्वम् । तदा किं तेनात्मगतोन्मादेन सृष्टि: प्रारब्धा ? यदि सत्यमेतत् तर्हि तस्यां स्थितौ विश्वस्मिन् प्राकृतिक व्यवस्था न प्रसज्येत । एवं चेत् किं तेनैषा रचना मनुष्याणां नैतिकानैतिककार्याधारेण कृता? यदि सत्यमिदं तहि सोऽपि नैतिकव्यवस्था बद्धः । न च स्वातन्त्र्यमर्हति । कि करुणापरत्वात् तेन कृता विश्वसृष्टि:-जगत्सृष्टि: ?
विश्वकर्तृत्व-मीमांसा-६