SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ननु मानवनिर्मापकत्वाच्चेतनः कर्त्तेति चेन्न तस्याप्यपूर्णत्वप्रसङ्गात् मानववत् । यदि शक्यते - यन्नेदं जगदेवंविधं कार्यं यथा मानवनिर्मितानि तत् तदन्यानि कार्याणि । तदानुमानं न सेत्स्यति । यतो हि जलादुत्थितो धूमो वह्निधूमसादृश्यं भजते, किन्तु जलेऽग्नेरनुमानं न करोति । कश्चिदिति व्यवहारेऽपि दृश्यतेऽग्निविरोधिनो जलस्य तत्र सत्त्वात् । ननु जगदेतत् सर्वथा भिन्नं कार्यं येनानुमितिः सम्भवा । एतादृशानि भवन्ति बहुतराणि कार्याणि येषां दर्शनेन तेषां कर्तृगामनुमितिर्विधियते । श्रज्ञातप्रासादभग्नावशेषात् तस्य चेतनकर्तेत्यनुमीयते । तथैव जगदेतत् कार्यं तस्य कर्त्ता नैव दृष्टः । यथा- प्रज्ञातप्रासादभग्नावशेषस्य कर्त्तास्माभिर्न दृष्टस्तथैव जगतोऽपि । उभयमेतत् कार्यं श्रदृष्टकर्तृ कत्वादिति चेन्न । यदि चेत् तर्क्यते जगत् कार्यं दर्शनात् सकर्तृकप्रतीतेः । तदा प्रश्नोऽयमुदैति - अस्यां प्रतीतौ भवन्तः ईश्वरमनुमनन्ति, ईश्वर कर्तृत्वादस्य कार्यत्वमनुमनन्ति । एवं चेदन्योन्याश्रयो नाम दोषः समुत्पद्येत । तुष्यति दुर्जनन्यायेन यदि स्वीक्रियते तावद् यदस्य जगतः एक कर्त्ता । तस्य कार्यमेतद् जगदिति । तदा विश्वकर्तृत्व-मीमांसा -५
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy