Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ लोहोपलस्य शक्तिः, प्रात्मस्थैव भिन्नदेशमपि । लोहमाकर्षन्ती दृश्यत, इह कार्य प्रत्यक्षा ।। ३ ।। एवमिह ज्ञानशक्तिः, आत्मस्थैव हन्त लोकान्तम् । यदि परिच्छिनत्ति, सर्व को नु विरोधो भवेत् तत्र ।। ४ ।। अथ सर्वगः सर्वज्ञः इति व्याख्यातम् । तत्रापि प्रतिविधीयते । ननु तस्य सार्वज्ञं केन प्रमाणेन गृहीतम् । प्रत्यक्षेण परोक्षेण वा ? न तावत् प्रत्यक्षेण, तस्येन्द्रिय-सन्निकर्पोत्पन्नतयातीन्द्रियग्रहणासामर्थ्यात् । नापि परोक्षेण । तद्धि अनुमानं शाब्दं वा स्यात् न तावदनुमानम्, तस्य लिङ्गि-लिङ्ग-सम्बन्ध-स्मरण-पूर्वकत्वात् । न च तस्य सर्वज्ञत्वेऽनुमेये किञ्चिदन्यभिचारी-लिङ्ग पश्यामः । तस्यात्यन्त-विप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्ग-सम्बन्धग्रहणाभावात् अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुपपद्यमानं सर्वज्ञत्वमर्थादापादयतीति चेन्न । अविनाभावाभावात् । न हि जगद्वैचित्री तत् सार्वज्यं विनान्यथा नोपपन्ना । द्विविधं हि जगत् स्थावर-जङ्गमभेदात् । तत्र जङ्गमानां वैचित्र्यं स्वोपात्तशुभाशुभकर्म-पारिपाकवशेनैव । स्थावराणां तु सचेतनानामियमेव गतिः । अचेतनानां तु विश्वकर्तृत्व-मीमांसा-२०

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116