SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ लोहोपलस्य शक्तिः, प्रात्मस्थैव भिन्नदेशमपि । लोहमाकर्षन्ती दृश्यत, इह कार्य प्रत्यक्षा ।। ३ ।। एवमिह ज्ञानशक्तिः, आत्मस्थैव हन्त लोकान्तम् । यदि परिच्छिनत्ति, सर्व को नु विरोधो भवेत् तत्र ।। ४ ।। अथ सर्वगः सर्वज्ञः इति व्याख्यातम् । तत्रापि प्रतिविधीयते । ननु तस्य सार्वज्ञं केन प्रमाणेन गृहीतम् । प्रत्यक्षेण परोक्षेण वा ? न तावत् प्रत्यक्षेण, तस्येन्द्रिय-सन्निकर्पोत्पन्नतयातीन्द्रियग्रहणासामर्थ्यात् । नापि परोक्षेण । तद्धि अनुमानं शाब्दं वा स्यात् न तावदनुमानम्, तस्य लिङ्गि-लिङ्ग-सम्बन्ध-स्मरण-पूर्वकत्वात् । न च तस्य सर्वज्ञत्वेऽनुमेये किञ्चिदन्यभिचारी-लिङ्ग पश्यामः । तस्यात्यन्त-विप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्ग-सम्बन्धग्रहणाभावात् अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुपपद्यमानं सर्वज्ञत्वमर्थादापादयतीति चेन्न । अविनाभावाभावात् । न हि जगद्वैचित्री तत् सार्वज्यं विनान्यथा नोपपन्ना । द्विविधं हि जगत् स्थावर-जङ्गमभेदात् । तत्र जङ्गमानां वैचित्र्यं स्वोपात्तशुभाशुभकर्म-पारिपाकवशेनैव । स्थावराणां तु सचेतनानामियमेव गतिः । अचेतनानां तु विश्वकर्तृत्व-मीमांसा-२०
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy