Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ मदीयमीश्वरस्वरूपविषये मन्तव्यम् । भगवान् ईश्वरो वा सुन्दररुचिर-केशपाशसंवलितो ललितो महापराक्रमी चावश्यमेव भविष्यतीति । वनराजस्य केसरिणो वचनं निशम्य व्याघ्रोऽपि स्वासनादुत्थायावदत् । शृण्वन्तु भवन्तो मदीयं हार्दम् स खलु भगवान् नैव कदापि केसरिवदालस्यपरायणः सम्भवति । स तु सदैव स्फूत्तिमान् धीरो गम्भीरो महापराक्रमी पीतकृष्णादि चिह्न संवलितो ललितो भवेदिति । व्यर्थभूतायाः केशपाशराशेस्तत्र कावश्यकतेति विभावयन्तु तत्र भवन्तो भवन्तः ? तदा गजराजः अब्रवीत् एतयोः सिंह-व्याघ्रयोर्वचनमाकर्ण्य परिहासः प्रतिपद्यते । एतौ केशवान् पीतश्यामलो वेति कथयतः तत् स्वरूपं तत् तु मिथ्येति वचम्यहम् । यतो हि स्वयमेवाहमीश्वरस्वरूपमिव अस्मि । चित्रविचित्रस्य जगतो निर्माता किं तावत् मत् स्वरूपमिव विशालकायो न भवेत् । मदीये मस्तके नास्ति के शराशिः न च शरीरे पीत-श्यामलौ वर्णाविति कथं तावत् तादृक् स्वरूपं संघटते परमात्मन इति । एतावताहं ब्रवीमि स परमात्मा अतीव विशालकायः शक्तिशाली धीर-गम्भीरः, सात्त्विकाहार - विहारकारी महच्छुण्डादण्डयुतो येन जगत्कर्तृत्व-मीमांसा-५

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116