Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ * अद्वितीय एव ईश्वरः * अनन्तज्ञानविज्ञानमयः, सच्चिदानन्दघनस्वरूपः, सर्वथाऽष्टादशदोषरहितो भगवान् जगतामद्वितीय एवअलौकिक एव, अनुपम एव तथा आदर्श एवैव। ये च तं विश्व-सृष्टि-करिं, पालक संहारकं वेति समामनन्ति, तत्कार्यसम्पादनार्थमायुधवन्तमीश्वरं सम्भावयन्ति । नैतदुपयुज्यते । यतो हि शुद्ध-बुद्ध-मुक्तस्वरूपो भगवान् कथं कर्दममये संसारचक्र-संचालने स्वात्मानं प्रदूषयेत् ? स्त्रिभिस्सार्द्ध कथमसौ विलासं कुर्यात् ? वीतरागत्वात् । प्राकृत पुरुष इव ईश्वरो भवेत् चेत् कथं विवेकी पुरुषः तस्य स्मरणं पूजनं भजनं वा कुर्यात् ? जगतस्तन्त्रस्तु स्वतन्त्रः । नासौ प्रपञ्चकारी। स तु कर्मजालानि संशोध्यात्मानं पवित्रीकृत्य परमात्मपदवीम् अधिश्रितो जगतामाराध्यः पूज्यो वन्दनीयः । स तु अनन्तज्ञानानन्दमयो देवः । अत्र खलु श्रीमद् गीतायाः पंक्तिरियमनुसन्धेया'न कर्तृत्वं न कर्मारिण, लोकस्य सृजति प्रभुः।' 'नित्यं चिन्मयोऽनन्त-ज्ञानमयो वीतरागी। स एव भगवान ईश्वरो देवो वेति शम् ॥' जगत्कर्तृत्व-मीमांसा-११

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116