Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
अर्थात्-संसारबीजोत्पादकाः राग-द्वेष-क्रोध-मानमाया-लोभादयो यस्य विनष्टाः स खलु ब्रह्मा विष्णुः शिवो जिनो वा सदैव वन्दनीयः ।
अयमाशयो यन् नामभेदेन नास्ति भेदः । सर्वदोषरहितत्वमेव परमात्मनः स्वरूपं लक्षणं वेति । एवं खलु निखिलदोषराशिशून्यत्वे सति देवत्वं यत्र प्रतिष्ठितं तत्र वन्दन-पूजा-भजनादि-व्यवहारः सार्थक्यं भजते ।
ईश्वरे यदि रागद्वषादयः स्वीक्रियन्ते तदा तु महती क्षतिः सम्भाविनी यतो हि एकस्य प्राणिनः कृते तस्य रागः अपरस्य च कृते द्वषः इति कृत्वा साधारणमनुष्यव्यवहारवदाचरिते किमर्थमीश्वरत्वेन तं विजानीमः ।
* ईश्वरस्वरूपविषये पशुसंवादकथा *
कस्मिश्चिद् वने 'सिंह-व्याघ्र-गजाश्व-वृषभ-गर्दभश्वानाज - शशक - जम्बूकादयः निवसन्ति स्म। ते च सम्भूय सदैव यस्मिन् कस्मिन्नपि विषये निर्णयं कुर्वन्ति स्म। एकदा तैस्सम्भूय एकत्र ईश्वररूप-विमर्शः प्रारब्धः ।
प्रथमं तावत् केसरीसिंहः वनसम्राट् समुत्थाय धीरगम्भीरस्वरेण अवोचत् 'श्रूयतां तावत् सकलैरपि वन्यजीवैः
जगत्कर्तृत्व-मीमांसा-४

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116