SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अर्थात्-संसारबीजोत्पादकाः राग-द्वेष-क्रोध-मानमाया-लोभादयो यस्य विनष्टाः स खलु ब्रह्मा विष्णुः शिवो जिनो वा सदैव वन्दनीयः । अयमाशयो यन् नामभेदेन नास्ति भेदः । सर्वदोषरहितत्वमेव परमात्मनः स्वरूपं लक्षणं वेति । एवं खलु निखिलदोषराशिशून्यत्वे सति देवत्वं यत्र प्रतिष्ठितं तत्र वन्दन-पूजा-भजनादि-व्यवहारः सार्थक्यं भजते । ईश्वरे यदि रागद्वषादयः स्वीक्रियन्ते तदा तु महती क्षतिः सम्भाविनी यतो हि एकस्य प्राणिनः कृते तस्य रागः अपरस्य च कृते द्वषः इति कृत्वा साधारणमनुष्यव्यवहारवदाचरिते किमर्थमीश्वरत्वेन तं विजानीमः । * ईश्वरस्वरूपविषये पशुसंवादकथा * कस्मिश्चिद् वने 'सिंह-व्याघ्र-गजाश्व-वृषभ-गर्दभश्वानाज - शशक - जम्बूकादयः निवसन्ति स्म। ते च सम्भूय सदैव यस्मिन् कस्मिन्नपि विषये निर्णयं कुर्वन्ति स्म। एकदा तैस्सम्भूय एकत्र ईश्वररूप-विमर्शः प्रारब्धः । प्रथमं तावत् केसरीसिंहः वनसम्राट् समुत्थाय धीरगम्भीरस्वरेण अवोचत् 'श्रूयतां तावत् सकलैरपि वन्यजीवैः जगत्कर्तृत्व-मीमांसा-४
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy