SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विरचयता श्रीहरिभद्रसूरीश्वरेण स्पष्टरूपेण प्रत्यपादि । यथा यस्य निखिलाश्च दोषाः, न सन्ति सर्वे गुणाश्च वर्तन्ते । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ [पार्यावृत्तम् भावार्थः-यस्मिन् अात्मनि न खलु दोषसमूहस्य लेशोऽपि, सर्वेषां गुणानाञ्च समवायस्तिष्ठति एवं गुण विशिष्टो ब्रह्मा विष्णुः शिवो जिनो वेति परमात्मस्वरूपावच्छिन्नः स सर्वदा अस्माकं वन्दनीयः । ____ न खलु दोषसमवाये सत्यपि तस्य परमात्मनः स्वरूपावस्थितिः कथमपि सम्भाविनीति वेद्यमाकूतम् । क्रोध-मान-माया-लोभस्वरूपैः कषायैः कलुषितः कथं तावत् परमात्मपदं सार्थक्यं स्यात् ? स तु वीतरागः सर्वदोषपरित्यागी स्वरूपवेत्तेति परमात्मा। कलिकालसर्वज्ञेन श्रीहेमचन्द्राचार्येण महादेवस्तोत्रे प्रस्तुतप्रसङ्ग कथितम्भव-बीजाकुर-जननाः, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ जगत्कर्तृत्व-मीमांसा-३
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy