Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ तदा तु विश्वस्मिन् प्रसन्नतास्तु सुजनतायाश्च प्राधान्य स्यात् । नान्यत् किमपि दुःखादिकं स्यात् । यदि तावद् उच्यते मनुष्याणां दुःखभोक्तृत्वं तेषां पूर्वकृतकर्मघटितम् तदा तु सुखमपि पूर्वकृतकर्म विलसितं स्यात् । पूर्वकृतकर्माणि यानि भाग्यरूपेण नियतिरूपेण वा भवद्भिः स्वीकृतानि तत्प्रेरितो मनुष्यः कुकर्मतत्पर इति चेद् दृष्टः (नियतिः) एव सृष्टिकर्तेति मन्यताम् । यदि ईश्वरेण क्रीडाकौतुकेन जगत्सृष्टिः कृता तर्हि स तु निरुद्देश्यकार्यकारी बालक इव प्रतिपद्येत । सोद्देश्यकृता सृष्टिरिति स्वीकारे एकस्मै दण्डोऽन्यस्मै पुरस्कारः कथं घटते ? एवं तु तस्य पक्षपातित्वं दुषित्वञ्च स्यात् । यदि सृष्टि रचना तस्य स्वभाव एव । तस्मादेव सृष्टि: प्रभवति तदा तु स्वभावादेव सृष्टिः प्रभवत्वस्वीकारे को दोषः ? एषा तु क्लिष्टकल्पनैव यत् केनाऽपि ईश्वरेणोपकरणादि साहाय्यं विनाऽस्य जगतो रचना कृते तु भव-विरुद्धम् । ईश्वरकर्तृत्व स्वीकारेऽपि तद् ईश्वरार्थं प्रयुक्तानि विशेषणानि न सङ्गच्छदन्ते । अनादिरनन्तो नित्य इति । तस्याशरीरित्वात् बुद्धिचैतन्यस्वरूपत्वं घटते। तत् स्वरूपं नानात्मकविश्वपदार्थ-संरचनायां भिन्नं परिवर्तनशीलं स्यात् । यदि तस्य बुद्धौ, चेतनायां विश्वकर्तृत्व-मीमांसा-७

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116