Book Title: Vishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Author(s): Sushilsuri, Jinottamvijay
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 17
________________ विश्वोऽयमतीवविचित्रः । अत्र खलु जङ्गमस्थावरभेदेन द्विधा स्वरूपं विभाति । चेतनधर्मसंवलिताः जङ्गमाः । अचेतनास्तावत् स्थावराः। तत्र जिज्ञासावृत्तिरुदेति यदयं विश्वः केनापि बुद्धिमता का निर्मितोऽथवा स्वभावत एवास्य प्रवृत्तिः । सत्ता ? प्रश्नोऽयं पौनः पुण्येन विश्वस्मिन् उत्थितेऽद्यावधि शेमुषोमतां बुद्धिव्यायामविषयः । नाहं परमार्थ-तत्त्ववेत्ता तथापि परमार्थतत्त्वविदां वचोऽनुरागः सन् यथामति 'विश्वकर्तृत्वमीमांसा' चिकीर्षुरस्मि । किमस्य चित्रविचित्रस्य जगतः कश्चित् वस्तुतः कर्ता अस्ति ? किं तावदीश्वर एव तस्य कर्ता ? विषयेऽस्मिन् नैयायिकाः [वैशेषिकाः] कथयन्ति-यज्जगदेतत् कार्यम् । कार्योत्पत्ति कारणमन्तरा न सम्भवति । अतो जगतोऽप्युत्पत्तिकारणमसन्दिग्धम् । जगद्वैचित्र्यादपि कश्चिद् बुद्धिमान् कर्तेत्यनुमीयते । स च सर्वव्यापी सर्वज्ञः ईश्वर एवेति । __ जैनदार्शनिकानां मतं नैयायिकमत-समीक्षा-पुरस्सरमनुसन्धेयम् । यदा नैयायिकाः जगत् कार्यमिति कथयन्ति, तदा तेषां किं तात्पर्यम् ? किं तेषामिदमाकूतम् ? (१) सावयवत्वाज्जगत् कार्यम् ? विश्वकर्तृत्व-मीमांसा-२

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116