Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 5
________________ विशेषा ॥८०३॥ वर्णादिचतुष्का-ऽगुरुलघू-पघात-निर्माणा-ऽन्तरायपञ्चकलक्षणाः सप्तचत्वारिंशद् ध्रुवन्धिन्य उत्तरप्रकृतयः, तासां निजैकमूलप्रकृत्यभि नानामन्योन्यं संक्रमः सदैव भवति; यथा ज्ञानावरणपश्चकान्तर्वतिनि मतिज्ञानावरणे श्रुतज्ञानावरणादीनि, तेष्वपि मतिज्ञानावरणं | संक्रामतीत्यादि । यास्तु शेषा अध्रुवबन्धिन्यस्तासां निजैकमूलप्रकृत्यभेदवर्तिनीनामपि बध्यमानायामबध्यमाना संक्रामति, न त्ववध्यमानायां वध्यमाना; यथा साते बध्यमानेऽसातमबध्यमानं संक्रामति, न तु बध्यमानमवध्यमाने; इत्यादि वाच्यमिति । एष प्रकृतिसंक्रमे विधिः। शेषस्तु प्रदेशादिसंक्रमविधिः “मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमः, भवति" इत्यादिना स्थानान्तरादवसेय इत्यलं प्रसङ्गेनेति ॥ १९३९॥ तदेवं पुण्य पापे पृथग् व्यवस्थाप्येदानीं तयोरेव पृथग्लक्षणमाहसोहणवण्णाइगुणं सुभाणुभावं च जं तयं पुण्णं । विवरीयमओ पावं न बायरं नाइसुहुमं च ॥१९४०॥ शोभनाः शुभा वर्णादयो वर्ण-गन्ध-रस-स्पर्शलक्षणा गुणा यस्य तच्छोभनवर्णादिगुणम् , तथा, यच्छुभानुभाव शुभविपाकमित्यर्थः, तत् पुण्यमभिधीयते । यत् पुनरतः पुण्याद् विपरीतलक्षणम्- अशुभवर्णादिगुणम् , अशुभविपाकं चेत्यर्थः, तत् पापमुच्यते । एतच्चोभयमपि कथंभूतम् ? इत्याह-न मेर्वादिभावेन परिणतस्कन्धवदतिवादरम् , सूक्ष्मेण कर्मवर्गणाद्रव्येण निष्पन्नत्वात् । नापि परमावादिवदतिसूक्ष्ममिति ॥ १९४०॥ आह- ननु तत् पुण्य-पापरूपं कर्मद्वयं गृह्णानो जीवः कीदृशं गृह्णाति, कथं च गृह्णाति ? इत्याह गिण्हइ तज्जोगं चिय रेणुं पुरिसो जहा कयभंगो । एगक्खेत्तोगाढं जीवो सव्वप्पएसेहिं ॥ १९४१॥ सस्य पुण्य-पापात्मकस्य कर्मणो योग्यमेव कर्मवर्गणागतं द्रव्यं जीवो गृह्णाति, न तु परमाण्वादिकम् , औदारिकादिवर्गणागतं वाऽयोग्यमित्यर्थः। तदप्येकक्षेत्रावगाढमेव गृह्णाति, न तु स्वावगाढप्रदेशेभ्यो भिन्नप्रदेशावगाढमित्यर्थः। तच्च यथा तैलादिकृताभ्यङ्गः पुरुषो रेणु गृह्णाति तथा राग-द्वेषक्लिनस्वरूपो जीवोऽपि गृह्णाति, न तु निर्हेतुकमिति भावः । इदं च सर्वैरपि स्वप्रदेशजीवो गृह्णाति, न तु कैश्चिदित्यर्थः । उक्तं च ॥८०३॥ शोभनवर्णादिगुणं शुभानुभावं च यत् तत् पुण्यम् । विपरीतमतः पापं न बादरं मातिसूक्ष्मं च ॥ १९५० ॥ २ गृह्णाति तद्योग्यमेव रेणु पुरुषो यथा कृताभ्यङ्गः । एकक्षेत्रावगाढं जीवः सर्वप्रदेशैः ॥ १९४१॥ For Personal use only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 202