Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 13
________________ वचनेषु स्वस्वागमरूपेषु, कस्य नाम मध्यस्थस्य पुंसः, भवतु । विश्वासः प्रामाण्यप्रतिप्रत्तिरूपः, न च विश्वासाविषयीभूतं वचनं प्रवृत्तिमाधातुमुत्सहते, न च स्वपरिग्रहमात्रं विश्वासनिमित्तं भवितुमर्हति, . अतात्त्विकविश्वासस्यापि ततो माध्यस्थ्याप्रतिबद्धतयानुत्थानात, अन्यथा जैनवाक्यादिवत्कापिलादिवाक्यादपि प्रामाणिकाः किं न प्रवत्तेरन् ? कथं तामुष्मिकीप्रवृत्तिरित्यत आह । स धर्मः कर्तव्यो यत्राहिंसा जीवदया परमरम्या सूक्ष्माभोगपूर्विका, प्रतिपादिता भवतीति वाक्यशेषः, इत्थं च शुद्धाहिंसादेशकत्वमेव वचनं (ने) विश्वासंबीजमिति भावः। युक्तं चैतत् , अन्यैरप्यङ्गीकृतत्वात् । तदाहुः "श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत्" ॥३॥ इति एतत् प्रतिविधातुमाहभष्णइ आणाबज्झा लोगुत्तरणीइओ ण उ अहिंसा । सा णजइ सुत्ताओ हेउसरूवाणुबंधेहिं ॥४॥ भण्यतेऽत्रोत्तरं दीयते, आज्ञाबाह्या सूत्रविषयस्वतन्त्रविश्वासाप्रयोज्यप्रवृत्तिका, अहिंसैव तावल्लोकोत्तरनीतितो न भवति, प्रामुकपुष्पफलशैवलादिभोजिनां विजनारण्यवासिनां बालतपस्विनां स्वच्छन्दागीतार्थानां लोकोत्तरयतीनां च गुरुकुलवासतद्विनयकरप्रशास्त्राभ्यासादिवर्जितायाः केवलायास्तस्याः लोकमूलत्वेन लौकिकत्वानपायात् । तदाह भगवान् हरिभद्रसरिः "धम्मट्ठाणमहिंसा सारो एसोत्ति उज्जमइ एत्तो । सम्बपरिश्चारणं एगो इह लोगनीईएत्ति"। धमल्यानमहिंसा सार एष इति उद्यच्छति इतः । सर्वपरित्यागेनेक इह लोकनीत्येति ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 194