________________
वचनेषु स्वस्वागमरूपेषु, कस्य नाम मध्यस्थस्य पुंसः, भवतु । विश्वासः प्रामाण्यप्रतिप्रत्तिरूपः, न च विश्वासाविषयीभूतं वचनं प्रवृत्तिमाधातुमुत्सहते, न च स्वपरिग्रहमात्रं विश्वासनिमित्तं भवितुमर्हति, . अतात्त्विकविश्वासस्यापि ततो माध्यस्थ्याप्रतिबद्धतयानुत्थानात, अन्यथा जैनवाक्यादिवत्कापिलादिवाक्यादपि प्रामाणिकाः किं न प्रवत्तेरन् ? कथं तामुष्मिकीप्रवृत्तिरित्यत आह । स धर्मः कर्तव्यो यत्राहिंसा जीवदया परमरम्या सूक्ष्माभोगपूर्विका, प्रतिपादिता भवतीति वाक्यशेषः, इत्थं च शुद्धाहिंसादेशकत्वमेव वचनं (ने) विश्वासंबीजमिति भावः। युक्तं चैतत् , अन्यैरप्यङ्गीकृतत्वात् । तदाहुः
"श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत्" ॥३॥ इति
एतत् प्रतिविधातुमाहभष्णइ आणाबज्झा लोगुत्तरणीइओ ण उ अहिंसा । सा णजइ सुत्ताओ हेउसरूवाणुबंधेहिं ॥४॥
भण्यतेऽत्रोत्तरं दीयते, आज्ञाबाह्या सूत्रविषयस्वतन्त्रविश्वासाप्रयोज्यप्रवृत्तिका, अहिंसैव तावल्लोकोत्तरनीतितो न भवति, प्रामुकपुष्पफलशैवलादिभोजिनां विजनारण्यवासिनां बालतपस्विनां स्वच्छन्दागीतार्थानां लोकोत्तरयतीनां च गुरुकुलवासतद्विनयकरप्रशास्त्राभ्यासादिवर्जितायाः केवलायास्तस्याः लोकमूलत्वेन लौकिकत्वानपायात् । तदाह भगवान् हरिभद्रसरिः
"धम्मट्ठाणमहिंसा सारो एसोत्ति उज्जमइ एत्तो । सम्बपरिश्चारणं एगो इह लोगनीईएत्ति"। धमल्यानमहिंसा सार एष इति उद्यच्छति इतः । सर्वपरित्यागेनेक इह लोकनीत्येति ॥